भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 840-858

840

पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् ।
दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥

841

दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस् तत्र कीर्तितः ॥

842

गृहोपस्करवाह्याश् च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढे ऽब्रवीद् भृगुः ॥

843

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन् न चैवैकम् अकस्मात् कारणं विना ॥

844

संप्राप्तव्यवहाराणां विभागश् च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता ॥

845-1

अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् ।
न्यसेयुर् बन्धुमित्रेषु प्रोषितानां तथैव च ॥

845-2

प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत् तन्तुबन्धुभिः ।
पौगण्डाः परतस् तं तु विभजेरन् यथांशतः ॥

846

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वम् एव तु ॥

847

तद् ऋणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत् प्रमाणेन विरोधात् परतो यदा ॥

848

धर्मार्थं प्रीतिदत्तं च यद् ऋणं स्यान् नियोजितम् ।
तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥

849

पित्र्यं पित्र्यर्णसंशुद्धम् आत्मीयं चात्मना कृतम् ।
ऋणम् एवंविधं शोध्यं विभागे बन्धुभिः सह ॥

850

ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ॥

851

द्व्यंशहरो ऽर्धहरो वा पुत्रवित्तार्जनात् पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥

852

यथा यथा विभागाप्तं धनं यागार्थताम् इयात् ।
तथा तथा विधातव्यं विद्वद्भिर् भागगौरवम् ॥

853

लोके रिक्थविभागे ऽपि न कश्चित् प्रभुताम् इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥

854

विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

855

अविभक्ते ऽनुजे प्रेते तत् सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥

856

लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् ।
स एवांशस् तु सर्वेषा भ्रातॄणां न्यायतो भवेत् ।
लभेत तत् सुतो वापि निवृत्तिः परतो भवेत् ॥

857

उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥

858

कन्यकानां त्व् अदत्तानां चतुर्तो भाग इष्यते ।
पुत्राणां तु त्रयो भागाः साम्यं त्व् अल्पधने स्मृतम् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc