कात्यायनस्मृति · श्लोक 821-839
अचोराद् दापितं द्रव्यं चौरान्वेषणतत्परैः ।
उपलब्धे लभेरंस् ते द्विगुणं तत्र दापयेत् ॥
येन येन परद्रोहं करोत्य् अङ्गेन तस्करः ।
छिन्द्याद् अङ्गं नृपस् तस्य न करोति यथा पुनः ॥
त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।
खर्जूरबदरादीनां मुष्टिं गृह्णन् न दुष्यति ॥
मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
गौतमानाम् अनिष्टं यत् प्राण्युच्छेदद् विगर्हितम् ॥
सहोढम् असहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्याच् छिन्नम् आवेद्य सर्वस्वैर् विप्रयोजयेत् ॥
अयःसन्दानगुप्तास् तु मन्दभक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेर् आमृत्योर् इति कौशिकः ॥
परदेशाद् धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद्द्रव्यम् अदण्डं तं विसर्जयेत् ॥
चोराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः ।
क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥
अविद्वान् याजको वा स्यात् प्रवक्ता चानवस्थितः ।
तौ उभौ चोरदण्डेन विनीय स्थापयेत् पथि ॥
दूतोपचारयुक्तश् चेद् अवेलास्थानसंस्थितिः ।
क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु ।
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ॥
स्त्रीषु वृत्तोपभोगः स्यात् प्रसह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥
कामार्ता स्वैरिणी या तु स्वयम् एव प्रकामयेत् ।
राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ॥
आरम्भकृत्सहायश् च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश् च दोषवक्त्रनुमोककः ॥
अनिषेद्धाक्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥
पत्या चाप्य् अवियोगिन्या शुश्रूष्यो ऽग्निर् विनीतया ।
सौभाग्यवद् अव्वैधव्य काम्यया भर्तृभक्तया ॥
मतिशुश्रूषयैव स्त्री सर्वान् कामान् समश्नुते ।
दिवः पुनर् इहायाता सुखानां शेवधिर् भवेत् ॥
मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते ॥
सकलं द्रव्यजातं यद् भागैर् गृह्णन्ति तत् समैः ।
पितरो भ्रातरश् चैव विभागो धर्म्य उच्यते ॥
पैतामहं समानं स्यात् पितुः पुत्रस्य चोभयोः ।
स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यम् अर्हति ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0