कात्यायनस्मृति · श्लोक 801-820
आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस् तत्र तु नैव स्यात् पापे हीने वधो भृगुः ॥
उद्यतासिविषाग्निश् च चापोद्यतकरस् तथा ।
आथर्वणेन हन्ता च पिशुनश् चैव राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवम् आद्यान् विजानीयात् सर्वान् एवाततायिनः ॥
यशोवृत्तहरान् पापान् आहुर् धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस् त्व् अपराधे प्रवर्तते ।
प्राणद्रव्यापहारे च तं विद्याद् आततायिनम् ॥
नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥
गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।
अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणो ऽपि हि ॥
क्षतं भङ्गोपमर्दौ च कुर्याद् द्रव्येषु यो नरः ।
प्राप्नुयात् साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ॥
हरेद् भिन्द्याद् दहेद् वापि देवानां प्रतिमां यदि ।
तग्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥
प्राकारं भेदयेद् यस् तु पातयेच् छातयेत् तथा ।
बध्नीयाद् अम्भसो मार्गं प्राप्नुयात् पूर्वसाहसम् ॥
प्रच्छन्नं वा प्रकाशं वा निशायाम् अथ वा दिवा ।
यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम् ॥
अन्यहस्तात् परिभ्रष्टम् अकामाद् उद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥
तुलामानप्रतिमान प्रतिरूपकलक्षितैः ।
चरन्न् अलक्षितैर् वापि प्राप्नुयात् पूर्वसाहसम् ॥
गृहे तु मुषितं राजा चौरग्राहांस् तु दापयेत् ।
आरक्षकांश् च दिक्पालान् यदि चौरो न लभ्यते ॥
ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ॥
स्वदेशे यस्य यत् किंचिद् धृतं देयं नृपेण तु ।
गृह्णीयात् तत् स्वयं नष्टं प्राप्तम् अन्विष्य पार्थिवः ॥
चौरैर् हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद् अन्यथा किल्विषी नृपः ॥
लब्धे ऽपि चौरे यदि तु मोषस् तस्मान् न लभ्यते ।
दद्यात् तम् अथ वा चौरं दापयेत् तु यथेष्टतः ॥
तस्मिंश् चेद् दाप्यमानानां भवेद् दोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वा विशोधयेत् ॥
यस्माद् अपहृताल् लब्धं द्रव्यात् स्वल्पं तु स्वामिना ।
तच् शेषम् आप्नुयात् तस्मात् प्रत्यये स्वामिना कृते ॥
स्वदेशघातिनो ये स्युस् तथा मार्गनिरोधकाः ।
तेषां सर्वस्वम् आदाय राजा शूले निवेशयेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0