कात्यायनस्मृति · श्लोक 781-800
कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥
मनुष्याणां पशूनां च दुःखाय प्रहते सति ।
यथा यथा भवेद् दुःखं दण्डं कुर्यात् तथा तथा ॥
अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ॥
छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान् मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥
उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ॥
वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः ।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥
देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ।
समुत्थानव्ययं चासौ दद्याद् आव्रणरोपणात् ॥
वाग्दण्डस् ताडनं चैव येषूक्तम् अपराधिषु ।
हृतं भग्नं प्रदाप्यास् ते शोध्यं निःस्वैस् तु कर्मणा ॥
श्रान्तांस् तृषार्तान् क्षुधितान् अकाले वाहयेन् नरः ।
खरगोमहिषोष्ट्रादीन् प्राप्नुयात् पूर्वसाहसम् ॥
द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुल श्वसूकरवधे नृणाम् ॥
गोकुमारीदेवपशु मुक्षाणं वृषभं तथा ।
वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधः ॥
प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥
वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥
शिष्यं क्रोधेन हन्याच् चेद् आचार्यो लतया विना ।
येनात्यर्थं भवेत् पीडा वादः स्याच् शिष्यतः पितुः ॥
सहसा यत् कृतं कर्म तत् साहसम् उदाहृतम् ॥
सान्वयस् त्व् अपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेद् एवं स्तेयम् उक्तं विनिह्नवः ॥
विना चिह्नैस् तु यत् कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥
एकं चेद् वहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघातो तु यस् तेषां स घातक इति स्मृतः ॥
व्यापादनेन तत्कारी वधं चित्रम् अवाप्नुयात् ।
विनाशहेतुम् आयान्तं हन्याद् एवाविचारयन् ॥
उद्यतानां तु पापानां हन्तुर् दोषो न विद्यते ।
निवृत्तास् तु यद् आरम्भाद् ग्रहणं न वधः स्मृतः ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0