भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 761-780

761

अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः ।
स्वामिनं तं विजानीयाद् यस्य क्षेत्रेषु संश्रिताः ॥

762

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥

763

व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस् तु तद्गतं लभते व्ययम् ॥

764

अशक्तितो न दद्याच् चेत् खिलार्थो यत् कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ।
वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ॥

765

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥

766

विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनर् आव्रजेत् ।
शीलोपचारं तत् सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ॥

767

तदष्टभागापचयाद् यावत् सप्त गताः समाः ।
समाप्ते ऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ॥

768

हुङ्कारः कासनं चैव लोके यच् च विगर्हितम् ।
अनुकुर्याद् अनुब्रूयाद् वाक्पारुष्यं तद् उच्यते ॥

769

निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् ।
आक्षेपो निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंज्ञितम् ।
पतनीयैर् उपाक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥

770

यत् त्व् असत्संज्ञितैर् अङ्गैः परमाक्षिपति क्वचित् ।
अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक्स्मृता बुधैः ॥

771

न्यग्भावकरणं वाचा क्रोधात् तु कुरुते यदा ।
वृत्तदेशकुलादीनाम् अश्लीला सा बुधैः स्मृता ॥

772

महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् ॥

773

यो ऽगुणान् कीर्तयेत् क्रोधान् निगुणो वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ॥

774

अदुष्टस्यैव यो दोषान् कीर्तयेद् दोषकारणात् ।
अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥

775

मोहात् प्रमादात् सङ्घर्षात् प्रीत्या चोक्तं मयेति यत् ।
नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

776

यत्र स्यात् परिहारार्थं पतितस् तेन कीर्तनम् ।
वचनात् तत्र न स्यात् तु दोषो यत्र विभावयेत् ॥

777

अन्यथा तुल्यदोषः स्यान् मिथ्योक्तौ तूत्तमः स्मृतः ।
महता प्रणिधानेन वाग्दुष्टं साधयेन् नरम् ॥

778

अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ।
अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ॥

779

हेतुआदिभिर् न पश्येच् चेद् दण्डपारुष्यकारणम् ।
तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् ॥

780

आभीषणेन दण्डेन प्रहरेद् यस् तु मानवः ।
पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc