भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 741-760

741

नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।
कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् ॥

742

त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्रय कारयेत् सीमाम् एवं धर्मविदो विदुः ॥

743

ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः संप्रकीर्तिताः ॥

744

निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते वृद्धाः परिकीर्तिताः ॥

745

उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृतः ॥

746

सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेया ततो ऽन्ये त्रिगुणा मताः ॥

747

एको यद्वन् नयेत् सीमाम् उभयोर् ईप्सितः क्वचित् ।
मस्तके क्षितिम् आरोप्य रक्तवासाः समाहिताः ॥

748

भयवर्जितभूपेन सर्वाभावे स्वयंकृता ॥

749

क्षेत्रकूपतडागानां केदारारामयोर् अपि ।
गृहप्रासादावसथ नृपदेवगृहेषु च ॥

750

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दाप्यास् तूत्तमसाहसम् ॥

751

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥

752

मेखलाभ्रमनिष्कास गवाक्षान् नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग् भवेत् ॥

753

निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्ममु ॥

754

विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥

755

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिरुद्धो यथाकालं राजमार्गः स उच्यते ॥

756

न तत्र रोपयेत् किंचिन् नोपहन्यात् तु केनचित् ।
गुरुआचार्यनृपादीनां मार्गादानात् तु दण्डभाक् ॥

757

यस् तत्र संकरश्वभ्रान् वृक्षारोपणम् एव च ।
कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु माषकः ॥

758

तटाकोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥

759

दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् ॥

760

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc