भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 721-740

721

प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः ।
निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविड् नृपः ॥

722

शूद्रं तु कारयेद् दासं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टः स स्वयम् एव स्वयम् भुवा ॥

723

स्वदासीं यस् तु संगच्छेत् प्रसूता च भवेत् ततः ।
अवेक्ष्य बीजं कार्या स्यान् न दासी सान्वया तु सा ॥

724

दासस्य तु धनं यत् स्यात् स्वामी तस्य प्रभुः स्मृतः ।
प्रकाशं विक्रयाद् यत् तु न स्वामी धनम् अर्हति ॥

725

दासेनोढा स्वदासी या सापि दासीत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनः प्रभुर् यतः ॥

726

आदद्याद् ब्राह्मणीं यस् तु चिक्रीणीत तथैव च ।
राज्ञा तद् अकृतं कार्यं दण्ड्या स्युः सर्व एव ते ॥

727

कामात् तु संश्रितां यस् तु दासीं कुर्यात् कुलस्त्रियम् ।
संक्रामयेत वान्यत्र दण्ड्यस् तच् चाकृतं भवेत् ॥

728

बालधात्रीम् अदासीं च दासीम् इव भुनक्ति यः ।
परिचारकपत्नीं वा प्राप्नुयात् पूर्वसाहसम् ॥

729

विक्रोशमानां यो भक्तां दासीं विक्रेतुम् इच्छति ।
अनापदिस्थः शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥

730

तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥

731

प्रव्रज्यावसितो दासो मोक्तव्यश् च न केनचित् ।
अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ॥

732

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षट् भूवाद् अस्य हेतवः ॥

733

तस्मिन् भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।
लेख्यारूढश् चेतरश् च साक्षी मार्गद्वयान्वितः ॥

734

क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
द्वयोर् विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ॥

735

सामन्तभावे ऽसामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन् नगरदेशयोः ॥

736

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्ट समन्तात् परिरभ्य हि ॥

737

तेषाम् अभावे सामन्त मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारे ऽपि नात्र कार्या विचारणा ॥

738

संसक्तास् त्व् अथ सामन्तास् तत् संसक्तास् तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ॥

739

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥

740

संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc