कात्यायनस्मृति · श्लोक 701-720
सन्धिश् च परिवृत्तिश् च विषमा वा त्रिभोगतः ।
आज्ञयापि क्रयश् चापि दशाब्दं विनिवर्तयेत् ॥
ज्ञात्यादीन् अननुज्ञाप्य समीपस्थाननिन्दितान् ।
क्रयविक्रयधर्मो ऽपि भूमेर् नास्तीति निर्णयः ॥
स्वग्रामे दशरात्रं स्याद् अन्यग्रामे त्रिपक्षकम् ।
राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥
पलायिते तु करदे करप्रतिभुवा सह ।
करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥
समवेतैस् तु सामन्तैर् अभिज्ञैः पापभीरुभिः ।
क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥
कल्पितं मूल्यम् इत्य् आहुर् भागं कृत्वा तद् अष्टधा ।
एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ॥
समाः शतम् अतीते ऽपि सर्वं तद् विनिवर्तते ।
क्रयविक्रयणे क्रय्यं यन् मूल्यं धर्मतो ऽर्हति ॥
तत् तुर्ये पञ्चमे षष्टे सप्तमे ऽंशे ऽष्टमे ऽपि वा ।
हीनो यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥
हीनमूल्यं तु तत् सर्वं कृतम् अप्य् अकृतं भवेत् ।
उक्ताद् अल्पतरे हीने क्रये नैव प्रदुष्यति ॥
तेनाप्य् अंशेन हीयेत मूल्यतः क्रयविक्रये ।
कतम् अप्य् अकृतं प्राहुर् अन्ये धर्मविदो जनाः ॥
अर्धाधिके क्रयः सिध्येद् उक्तलाभो दशाधिकः ।
अवक्रयस् त्रिभागेन सद्य एव रुचिक्रयः ॥
मूल्यात् स्वल्पप्रदाने ऽपि क्रयसिद्धिः कृता भवेत् ।
चक्रवृद्द्यां प्रदातव्यं देयं तत् समयाद् ऋते ॥
यस् तु न ग्राहयेच् शिल्पं कर्माण्य् अन्यानि कारयेत् ।
प्राप्नुयात् साहसं पूर्वं तस्माच् शिष्यो निवर्तते ॥
शिक्षितो ऽपि श्रितं कामम् अन्तेवासी समाचरेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत् फलम् ॥
स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥
वर्णानाम् अनुलाम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥
समवर्णो ऽपि विप्रं तु दासत्वं नैव कारयेत् ।
ब्राह्मणस्य हि दासत्वान् नृपतेजो विहन्यते ॥
क्षत्रविश्शूद्रधर्मस् तु समवर्णे कदाचन ।
कारयेद् दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥
शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ॥
विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।
प्रायो दासीसुताः कुर्युर् गवादिग्रहणं च यत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0