भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 681-700

681

आर्हतसौगतानां तु समूहः सङ्घ उच्यते ।
चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥

682

गणपाषण्डपूगाश् च व्राताश् च श्रेणयस् तथा ।
समूहस्थाश् च ये चान्ये वर्गाख्यास् ते बृहस्पतिः ॥

683

क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् ।
स मूल्याद् दशमं भागं दत्त्वा स्वद्रव्यम् आप्नुयात् ॥

684

अप्राप्ते ऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥

685

भूमेर् दशाहे विक्रेतुर् आयस् तत्क्रेतुर् एव च ।
द्वादशाहः सपिण्डानाम् अपि चाल्पम् अतः परम् ॥

686

क्रीत्वानुशयवान् पण्यं त्यजेद् दोह्यादि यो नरः ।
अदुष्टम् एव काले तु स मूल्याद् दशमं वहेत् ॥

687

क्रीत्वा गच्छन्न् अनुशयं क्रयी हस्तम् उपागते ।
षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद् बुधः ॥

688

अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।
क्रीतं तत् स्वामिने देयं काले चेद् अन्यथा न तु ॥

689

निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति ।
मूल्यं तद् द्विगुणं दाप्यो विनयं तावद् एव च ॥

690

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥

691

दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी ।
विक्रीतं च तद् अन्यत्र विक्रेता नापराध्रुयात् ॥

692

मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर् भवेत् ॥

693

त्र्यहं दोह्यं परीक्षेत पत्र्चाहद् वाह्यम् एव तु (?) ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् प्रवीक्षणम् ॥

694

द्विपदाम् अर्धमासं तु पुंसां तद् द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥

695

अतो ऽर्वाक्पण्यदोषस् तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥

696

परिभुक्तं तु यद् वासः क्लिष्टरूपं मलीमसम् ।
सदोषम् अपि तत् क्रीतं विकेतुर् न भवेत् पुनः ॥

697

साधारणं तु यत् क्रीतं नैको दद्यान् नराधमः ।
नादद्यान् न च गृह्णीयाद् विक्रीयाच् च न चैव हि ॥

698

क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्यवीक्षितम् ॥

699

द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्र्यंशांशम् आहरेत् ।
द्विगुणं तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥

700

द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यम् उच्यते ।
लाभश् चतुर्थो भागः स्यात् पञ्चमः सत्यम् उच्यते ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc