भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 661-680

661

यदा तु पथि तद्भाण्डम् आसिध्येत ह्रियेत वा ।
यावान् अध्वा गतस् तेन प्राप्नुयात् तावतीं भृतिम् ॥

662

हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।
नार्पयेत् कृतकृत्यार्थः स तु दाप्यः सभाटकम् ॥

663

गृहवार्यापणादीणि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद् यावत् तावद् दाप्यः सभाटकम् ॥

664

क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।
ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ॥

665

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद् यत्र दण्डं तत्र प्रकल्पयेत् ॥

666

अजातेष्व् एव सस्येषु कुर्याद् आवरणं महत् ।
दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ॥

667

दापयेत् पणपादं गां द्वौ पादौ महिषीं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥

668

समूहिनां तु यो धर्मस् तेन धर्मेण ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥

669

अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥

670

राजप्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
गर्ह्यः स पापो दण्ड्यश् च लोपयन् राजशासनम् ॥

671

युक्तियुक्तं च यो हन्याद् वक्तुर् यो ऽनवकाशदः ।
अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ॥

672

साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥

673

एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।
अकुर्वंस् तत् तथा दण्ड्यस् तस्य दोषम् अदर्शयन् ॥

674

गणम् उद्दिश्य यत् किंचित् कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥

675

गणानां श्रेणिवर्गाणां गताः स्युर् ये तु मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥

676

तथैव भोज्यवैभाज्य दानधर्मक्रियासु च ।
समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाङ् न तु ॥

677

यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषाम् एव तत्समम् ॥

678

नानापौरसमूहस् तु नैगमः परिकीर्तितः ।
नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥

679

समूहो वणिजादीनां पूगः संपरिकीर्तितः ।
प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ॥

680

ब्राह्मणानां समूहस् तु गणः संपरिकीर्तितः ।
शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc