भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 641-660

641

अतश् च सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥

642

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्याद् ऋणव दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥

643

प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यस् तिर्यग्योनौ च जायते ॥

644

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥

645

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात् प्रत्युपकारतः ॥

646

प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्वं तस्य दास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥

647

कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥

648

या तु कार्यस्य सिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।
तस्मिन्न् अपि पसिद्धे ऽर्थे न देया स्यात् कथंचन ॥

649

अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यस् तथा बलात् ।
दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥

650

स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।
दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥

651

प्राप्तम् एतैस् तु यत् किंचित् तद् उत्कोचाख्यम् उच्यते ।
न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् ॥

652

नियुक्तो यस् तु कार्येषु स चेद् उत्कोचम् आप्नुयात् ।
स दाप्यस् तद्धनं कृत्स्नं दमश् चैकादशाधिकम् ॥

653

अनियुक्तस् तु कार्यार्थम् उत्कोचं यम् अवाप्नुयात् ।
कृतप्रत्युपकारार्थस् तस्य दोषो न विद्यते ॥

654

स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥

655

योगाधमनविक्रीतं योगदानपतिग्रहम् ।
यस्य वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

656

भृतावनिश्चितायां तु दशभागम् अवाप्नुयात् ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥

657

कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।
बलात् कारयितव्यो ऽसौ अकुर्वन् दण्डम् अर्हति ॥

658

विघ्नयन् वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ॥

659

न तु दाप्यो हृतं चोरैर् दग्धमूढं जलेन वा ॥

660

त्यजेत् पथि सहायं यः श्रान्तं रोगार्तम् एव वा ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc