कात्यायनस्मृति · श्लोक 621-640
वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः ।
अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥
स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् ।
अर्धं द्वयोर् अपहृतं तत्र स्याद् व्यवहारतः ॥
अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ।
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥
समवेतास् तु ये केचिच् शल्पिनो वणिजो ऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥
भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समयेन व्यवस्थिताः ॥
प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥
बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।
ऋणं च कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥
ज्ञातिसंबन्धिसुहृदाम् ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥
स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।
देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥
समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल् लाभात् स परिहीयते ॥
चोरतः सलिलाद् अग्नेर् द्रव्यं यस् तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्व् अयं विधिः ॥
शिक्षकाभिज्ञकुशला आचार्यश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥
परराष्ट्राद् धनं यत् स्याच् चौरैः स्वाम्याज्ञयाहृतम् ।
राज्ञो दशांशम् उद्धृत्य विभजेरन् यथाविधि ॥
चोराणां मुख्यभूतस् तु चतुरो ऽंशांस् ततो हरेत् ।
शूरो ऽंशांस् त्रीन् समर्थो द्वौ शोषास् त्व् एकैकम् एव च ॥
तेषां चेत् प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद् दत्तं वहेयुस् ते यथांशतः ॥
नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।
तालज्ञो लभते ह्य् अर्धं गायनास् तु समांशिनः ।
प्रमुखा द्व्यंशम् अर्हन्ति सो ऽयं संभूय कुर्वताम् ॥
वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषाम् एष निर्णयः ॥
विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥
आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥
सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0