कात्यायनस्मृति · श्लोक 601-620
ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥
सर्वेषूपनिधिष्व् एते विधयः परिकीर्तिताः ॥
यैश् च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच् शिल्पी दाप्यो दैवहते ऽपि तत् ॥
न्यासदोषाद् विनाशः स्याच् शिल्पिनं तन् न दापयेत् ।
दापयेच् शिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥
स्वल्पेनापि च यत् कर्म नष्टं चेद् भृतकस्य तत् ।
पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥
यदि तत् कार्यम् उद्दिश्य कालं परिनियम्य वा ।
याचितो ऽर्धकृते तस्मिन्न् अप्राप्ते न तु दाप्यते ॥
प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि सन् ।
तस्मिन् नष्टे वापि ग्रहीता मूल्यम् आहरेत् ॥
याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥
अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥
यो याचितकम् आदाय न दद्यात् प्रतियाचितः ।
स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥
अनुमार्गेण कार्येषु अन्यस्मिन् वचनान् मम ।
दद्यास् त्वम् इति यो दत्तः स इहान्वाधिर् उच्यते ॥
अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् ॥
अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।
पश्चाद् आत्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ॥
नाष्टिकस् तु प्रकुर्वीत तद् धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥
प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् ।
मूलानयनकालस् तु देयो योजनसंख्यया ॥
प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥
यदा मूलम् उपन्यस्य पुनर् वादी क्रयं वदेत् ।
आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥
असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ॥
अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥
यदि स्वं नैव कुरुते ज्ञातिभिर् नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डम् अर्हति ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0