कात्यायनस्मृति · श्लोक 581-600
विण्मूत्रशङ्का यस्य स्याद् धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥
स कृतप्रतिभूश् चैव मोक्तव्यः स्याद् दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥
यो दर्शनप्रतिभुवं नाधिगच्छेन् न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥
न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सो ऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥
पीडनेनोपरोधेन साधयेद् ऋणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ॥
आददीतार्थम् एवं तु व्याजेनाचरितेन च ।
कर्मणा क्षत्रविश्शूद्रान् समहीनांश् च दापयेत् ॥
राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ॥
वणिजः कर्षकाश् चैव शिल्पिनश् चाब्रवीद् भृगुः ।
देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दापयेत् ॥
पीडयेत् तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥
यदि ह्य् आदाव् अनादिष्टम् अशुभं कर्म कारयेत् ।
प्राप्नुयात् साहसं पूर्वम् ऋणान् मुच्येत चर्णिकः ॥
उद्धारादिकम् आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर् वा जायते गृहे ॥
त्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितं चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥
निक्षिप्तं यस्य यत् किंचित् तत्प्रयत्नेन पालयेत् ।
दैवराजकृताद् अन्यो विनाशस् तस्य कीर्त्यते ॥
यस्य दोषेण यत् किंचिद् विनाश्येत ह्रियेत वा ।
तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥
याचितानन्तरं नाशे दैवराजकृते ऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यान् मूल्यमात्रं न संशयः ॥
न्यासादिकं परद्रव्यं प्रभक्षितम् उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥
भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥
अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर् नष्टं तद् उच्यते ॥
ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशे ऽपि ग्रहीता नैव दाप्यते ॥
ग्राहकस्य हि यद् दोषान् नष्टं तु ग्राहकस्य तत् ।
तस्मिन् नष्टे हृते वापि ग्रहीता मूल्यम् आहरेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0