भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 561-580

561

प्रातिभाव्यागतं पौत्रैर् दातव्यं न तु तत्क्वचित् ।
पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ॥

562

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश् च तदभावे ऽन्यै रिक्थभाग्भिर् यथाक्रमम् ॥

563

यावन् न पैतृकं द्रव्यं विद्यमानं लभेत् सुतः ।
सुसमृद्दो ऽपि दाप्यः स्यात् तावन् नैवाधमर्णिकः ॥

564

लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत् तु विद्यात् कामकृतं नृणाम् ॥

565

यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत् तु विद्याद् क्रोधकृतं तु तत् ॥

566

स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥

567

निर्धनैर् अनपत्यैस् तु यत् कृतं शौण्डिकादिभिः ।
तत्स्त्रीणाम् उपभोक्ता तु दद्यात् तदृणम् एव हि ॥

568

शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस् तासां भर्तृक्रियासु तत् ॥

569

न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् ।
आपत्कृताद् ऋते पुंसां कुटुम्बार्थे हि विस्तरः ॥

570

अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥

571

अमतेनैव पुत्रस्य प्रधना यान्यम् आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर् विना ॥

572

ऋणार्थम् आहरेत् तन्तुं न सुखार्थं कदाचन ।
अयुक्ते कारणे यस्मात् पितरौ तु न दापयेत् ॥

573

या स्वपुत्रं तु जह्यात् स्त्री समर्थम् अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन् मनुः ॥

574

बालपुत्राधिकार्था च भर्तारं यान्यम् आश्रिता ।
आश्रितस् तदृणं दद्याद् बालपुत्राविधिः स्मृतः ॥

575

दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।
जीवताम् अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥

576

व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।
द्रव्यहृद् दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥

577

पूर्वं दद्याद् धनग्राहः पुत्रस् तस्माद् अनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥

578

देयं भार्याकृतम् ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुर् अर्थे कृतं यत् स्याद् अभिधाय गते दिशम् ॥

579

देयं पुत्रकृतं तत् स्याद् यच् च स्याद् अनुवर्णितम् ।
कृतासंवादितं यच् च श्रुत्वा चैवानुचोदितम् ॥

580

धार्यो ऽवरुद्धस् त्व् ऋणिकः प्रकाशं जनसंसदि ।
यावन् न दद्याद् देयं च देशाचारस्थितिर् यथा ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc