भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 541-560

541

सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस् तु तद् धानि सत्यंकारप्रयोजनम् ॥

542

कुटुम्बार्थम् अशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्ते च विद्याद् आपत्कृते तु तत् ॥

543

कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥

544

ऋणं पुत्रकृतं पित्रा न देयम् इति धर्मतः ।
देयं प्रतिश्रुतं यत् स्यात् यच् च स्याद् अनुमोदितम् ॥

545

प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर् वा दद्यात् पुत्रेण वा भृगुः ॥

546

भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।
ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥

547

मर्तुकामेन या भर्त्रा प्रोक्ता देयम् ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्य् आश्रितं स्त्रियाम् ॥

548

विद्यमानेअपि रोगार्ते स्वदेशात् प्रोषिते ऽपि वा ।
विंशात् संवत्सराद् देयं ऋणं पितृकृतं सुतैः ॥

549

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणम् एवंविधं पुत्राञ् जीवताम् अपि दापयेत् ॥

550

सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥

551

पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् ।
विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतान् ॥

552

नाप्राप्तव्यवहारेण पितर्य् उपरते क्वचित् ।
काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥

553

अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपीह नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ॥

554

यद् दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयम् ऋणं क्वचित् ॥

555

पित्रा दृष्टम् ऋणं यत् तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर् देयं पौत्रैस् तु तद्भृगुः ॥

556

पैतामहं तु यत् पुत्रैर् न दत्तं रोगिभिः स्थितैः ।
तस्माद् एवंविधं पौत्रैर् देयं पैतामहं समम् ॥

557

ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।
द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥

558

यद् देयं पितृभिर् नित्यं तदभावे तु तद्धनात् ।
तद् धनं पुत्रपुत्रैर् वा देयं तत्स्वामिने तदा ॥

559

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते गृह्णंस् तु दाप्यते ॥

560

पुत्राभावे तु दातव्यम् ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात् तद् विनिर्वर्तते ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc