भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 521-540

521

यस् तु सर्वस्वम् आदिश्य प्राक् पश्चान् नामचिह्नितम् ।
आदध्यात् तत् कथं न स्याच् चिह्नितं बलवत्तरम् ॥

522

मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।
ग्रामादयश् च लिख्यन्ते तदा सिद्धिम् अवाप्नुयात् ॥

523

आधीकृतं तु यत् किंचिद् विनष्टं दैवराजतः ।
तत्र ऋणं सोदयं दाप्यो धनिनाम् अधमर्णकः ॥

524

न चेद् धनिकदोषेण निपतेद् वा म्रियेत वा ।
आधिम् अन्यं स दाप्यः स्याद् ऋणान् मुच्येत नर्णिकः ॥

525

अकामम् अननुज्ञातम् अधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥

526

यस् त्व् आधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद् भत्सयेच् चैव प्राप्नुयात् पूर्वसाहसम् ॥

527

बलादकामं यत्राधिम् अनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात् साहसं पूर्वम् आधाता चाधिम् आप्नुयात् ॥

528

आधिं दुष्टेन लेख्येन भुङ्क्ते यम् ऋणिकाद् धनी ।
नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ॥

529

आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।
राज्ञस् ततः स विख्यातो विक्रेय इति धारणा ।
सवृद्धिकं गृहीत्वा तु शेषं राजन् यथार्पयेत् ॥

530

दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकं कारयेद् एवं यथायोगं विपर्यये ॥

531

दर्शनप्रतिभूर्यस् तं देशे काले न दर्शयेत् ।
निबन्धम् आवहेत् तत्र दैवराजकृताद् ऋते ॥

532

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥

533

काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
स तम् अर्थं प्रदाप्यः स्यात् प्रेते चैवं विधीयते ॥

534

गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद् दाप्यः स्यात् तद् ऋणं सुतः ॥

535

यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयन् स तं तस्मै प्रयच्छेत् स्वधनाद् ऋणम् ॥

536

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥

537

एकच्छायाश्रिते सर्वं दद्यात् तु प्रोषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ॥

538

एकच्छायाप्रविष्टानां दाप्यो तस् तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥

539

प्रातिभाव्यं तु यो दद्यात् पीडितः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥

540

यस्यार्थे येन यद् दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर् भावितेनैव प्रतिभूस् तत् समाप्नुयात् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc