भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 501-520

501

आधिभोगस् त्व् अशेषो यो वृद्धिस् तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्याद् आधिभोगः स उच्यते ॥

502

यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद्धनं वृद्धिम् आप्नुयात् ॥

503

कृत्वोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात् तस्य तद्धनं वृद्धिम् आप्नुयात् ॥

504

स्वदेशे ऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् ।
तं ततो ऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥

505

प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

506

निक्षिप्तं वृद्धिशेषं च क्रयविक्रयम् एव च ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

507

पण्यं गृहीत्वा यो मूल्यम् अदत्त्वैव दिशं व्रजेत् ।
ऋतुत्रयस्यापरिष्टात् तद्धनं वृद्धिम् आप्नुयात् ॥

508

चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ॥

509

ग्राह्यं स्याद् द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।
लभते चेन् न द्विगुणं पुनर् वृद्धिं प्रकल्पयेत् ॥

510

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥

511

तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् ।
वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥

512

कुप्यं पञ्चगुणं भूमिस् तथैवाष्टगुणा मता ।
सद्य एवेति वचनात् सद्य एव प्रदीयते ॥

513

एकाहे लिखितं यत् तु तत् तु कुर्याद् ऋणं समम् ।
ग्रहणं रक्षणं लाभम् अन्यथा तु यथाक्रमम् ॥

514

नानाऋणसमवाये तु यद् यत् पूर्वकृतं भवेत् ।
तत् तद् एवाग्रतो देयं राज्ञः स्याच् श्रोत्रियाद् अनु ॥

515

यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् ।
तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नान्यथा ॥

516

द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।
जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ।
मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकम् आप्नुयात् ॥

517

आधिम् एकं द्वयोर् यस् तु कुर्यात् का प्रतिपद् भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥

518

आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥

519

अनिर्दिष्टं च निर्दिष्टम् एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनो ऽब्रवीत् ॥

520

यो ऽविद्यमानं प्रथमम् अनिर्दिष्टस्वरूपकम् ।
आकाशभूतम् आदध्याद् अनिर्दिष्टं च तद् भवेत् ।
यद् यत् तदास्य विद्येत तद् आदिष्टं विनिर्दिशेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc