भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 481-500

481

आचार्यस्य पितुर् मातुर् बान्धवानां तथैव च ।
एतेषाम् अपराधेषु दण्डो नैव विधीयते ॥

482

प्राणात्यये तु यत्र स्याद् अकार्यकरणं कृतम् ।
दण्डस् तत्र तु नैव स्याद् एष धर्मो भृगुस्मृतः ॥

483

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्राच् चैनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥

484

चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥

485

येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन चेत् क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥

486

प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥

487

सर्वेषु चापराधेषु पुंसो यो ऽर्थदमः स्मृतः ।
तदर्धं योषितो दद्युर् वधे पुंसो ऽङ्ग कर्तनम् ॥

488

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस् तत्रापराध्यति ।
प्रभुणा शासनीयास् ता राजा तु पुरुषं नयेत् ॥

489

प्रोषितस्वामिका नारी प्रापिता यद्य् अपि ग्रहे ।
तावत् सा बन्धने स्थाप्या यावत् प्रत्यागतः प्रभुः ॥

490

कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥

491

माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः ।
अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ॥

492

यत्रोक्तो माषकैर् दण्डो राजतं तत्र निर्दिशेत ।
कृष्णलैश् चोक्तम् एव स्याद् उक्तदण्डविनिश्चयः ॥

493

माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागा माषकस्य पणस्य च ॥

494

पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी ।
कार्षापणोण्डिका ज्ञेयास् ताश् चतस्रस् तु धानकः ।
ते द्वादश सुवर्णास् तु दीनारश् चित्रकः स्मृतः ॥

495

असत् सद् इति यः पक्षः सभ्यैर् एवावधार्यते ।
तीरितः सो ऽनुशिष्टस् तु साक्षिवाक्यात् प्रकीर्तितः ॥

496

कुलादिभिर् निश्चिते ऽपि सन्तोषं न गतस् तु यः ।
विचार्य तत् कृतं राजा कुकृतं पुनर् उद्धरेत् ॥

497

न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत् क्वचिद् उद्धृतम् ।
दाता न लभते तत् तु तेभ्यो दद्यात् तु यद् वसु ॥

498

ऋणिकेन तु या वृद्धिर् अधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ।
अन्यथा कारिता वृद्धिर् न दातव्या कथंचन ॥

499

एकान्तेनैव वृद्धिं तु शोधयेद् यत्र चर्णिकम् ।
प्रतिकालं ददात्य् एव शिखावृद्धिस् तु सा स्मृता ॥

500

गृहात् तोषः फलं क्षेत्राद् भोगलाभः प्रकीर्तितः ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc