भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 461-480

461

सहस्रं षट्शतं चैव तथा पञ्च शतानि च ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥

462

यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न तूच्यते ।
दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥

463

आचतुर्दशकाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥

464

उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा ।
यद् दत्तं यत् कृतं वाथ प्रमाणं नैव तद् भवेत् ॥

465

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृताद् ऋते ॥

466

पितास्वतन्त्रः पितृमान् भ्राता भातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस् तथा ॥

467

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर् नानुवर्णिताः ॥

468

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं ते कुर्वन्तो ऽप्य् अनुमोदिताः ॥

469

क्षेत्रादीणां तथैव स्युर् भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥

470

निसृष्टार्थस् तु यो यस्मिन् तस्मिन्न् अर्थे प्रभुस् तु सः ।
तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुम् अर्हति ॥

471

सुतस्य सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥

472

शुद्धिस् तु शास्त्रतत्त्वज्ञैश् चिकित्सा समुदाहृता ।
प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ॥

473

अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥

474

सर्वापलापं यः कृत्वा मिथो ऽल्पम् अपि संवदेत् ।
सर्वम् एव तु दाप्यः स्याद् अभियुक्तो बृहस्पतिः ॥

475

एवं धर्मासनस्थेन समेनैव विवादिना ।
कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥

476

व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः ।
जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥

477

राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥

478

रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् ।
वणिजः कर्षकांश् चापि शिल्पिनश् चाब्रवीद् भृगुः ॥

479

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाद् ऋते ॥

480

कर्षकान् क्षत्रविश्शूद्रान् समीहानांस् तु दापयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc