कात्यायनस्मृति · श्लोक 441-460
प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
न दग्धं तु विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥
शरांस् त्व् अनायसैर् अग्रैः प्रकुर्वीत विशुद्धये ।
वेणकाण्डमयांश् चैव क्षेप्ता च सुदृढं क्षिपेत् ॥
क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्व् आगमः कार्यः पुमान् अन्यो जले विशेत् ॥
शिरोमानं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥
निमज्ज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिभिर् नरः ।
पुनस् तत्र निमज्जेत् स देशचिह्नविभाविते ॥
अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ॥
रक्तं तदसितं कुर्यात् कटिनं चैव तल्लक्षणात् ।
अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ॥
वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशङ्खाकृतिर् भङ्गे विद्यात् तद्वत्सनाभकम् ॥
मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यम् एवं समाख्यातं लक्षणं धर्मसाधकैः ॥
पूर्वाह्णे शीतले देशे विषं दद्यात् तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥
विषस्य पलषड्भागाद् भागो विंशतिम् अस्तु यः ।
तम् अष्टभागहीनं शोध्ये देयं घृताप्लुतम् ॥
स्वल्पे ऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥
देवतास्नानपानीय दिव्ये तण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच् शुद्धो नियम्यो ऽशुचिर् अन्यथा ॥
अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डम् अभियोगं च दापयेद् अभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत् कुर्याद् धार्मिको नृपः ॥
शोणितं दृश्यते यत्र हनुवालं च सीदति ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥
अथ दैवविसंवादात् त्रिसप्ताहात् तु दापयेत् ।
अभियुक्तं तु यत्नेन तम् अर्थं दण्डम् एव च ॥
तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥
क्षयातिसारविस्फोटास् ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश् च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश् च दैविका व्याधयो नृणाम् ॥
शतार्धं दापयेच् शुद्धम् अशुद्धो दण्डभाग् भवेत् ॥
विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0