कात्यायनस्मृति · श्लोक 421-440
तदर्धार्धस्य नाशे तु लौकिकाश् च क्रियाः स्मृताः ।
एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥
राजन्ये ऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वदिव्यं वा विषं वर्ंज्य द्वियोत्तमे ॥
गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव ग्राहयेच् शूद्रवद् द्विजान् ॥
न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच् च न क्वचित् ।
तण्डुलैर् न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥
कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥
मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥
एतेष्व् एवाभियोगेषु निन्द्येष्व् एव च यत्नतः ।
दिव्यं प्रकल्प्येन् नैव राजा धर्मपरायणः ॥
एतैर् एव नियुक्तानां साधूनां दिव्यम् अर्हति ।
नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर् नरैः ॥
महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥
एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् मनुः ॥
अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यपसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥
इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु सभामध्ये दिव्यं देयं विदुर् बुधाः ॥
कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद् दिव्यं विधिर् एष विपर्यये ॥
अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥
साधयेत् तत् पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्य् अपि यथोक्तानि राजा दिव्यानि वर्जयेत् ।
मूर्खैर् लुब्धैश् च दुष्टैश् च पुनर् देयानि तानि वै ॥
तस्माद् यथोक्तविधिना दिव्यं देयं विशारदैः ।
अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ॥
शिक्यच् छेदे तुलाभङ्गे तथा वापि गुणस्य वा ।
शुद्धेस् तु संशये चैव परीक्षेत पुनर् नरम् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0