कात्यायनस्मृति · श्लोक 401-420
ऊनम् अभ्यधिकं वार्थं विब्रूयुर् यत्र साक्षिणः ।
तद् अप्य् अयुक्तं विज्ञेयम् एष साक्षिविनिश्चयः ॥
अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।
साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश् च धर्मतः ॥
वाक्पारुष्ये छले वादे दप्याः स्युर् त्रिशतं दमम् ।
ऋणादिवादेषु धनं ते स्युर् दाप्या ऋणं तथा ॥
यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः ।
ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ऽपि नराधमः ॥
साक्षी साक्ष्यं न चेद् ब्रूयात् समदण्डं वहेद् ऋणम् ।
अतो ऽन्येषु विवादेषु त्रिशतं दण्डम् अर्हति ॥
उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः ॥
येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥
यत्र वै भावितं कार्यं साक्षिभिर् वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत् कार्यम् अन्यथा ।
बहुभिश् च कुलीनैर् वा पूर्वाः स्युः कूटसाक्षिणः ॥
यदा शुद्धा क्रिया न्यायात् तदा तद्वाक्यशोधनम् ।
शुद्धाच् च वाक्याद् यः शुद्धः स शुद्धो ऽर्थ इति स्थितिः ॥
सप्ताहात् तु प्रतीयेत यत्र साक्ष्य् अनृतं वदेत् ।
रोगो ऽग्निर् ज्ञातिमरणं द्विसप्ताहात् त्रिसप्त वा ।
षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ॥
न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥
पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।
आत्मशुद्धिविधाने च न शिरस् तत्र कल्पयेत् ॥
लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि नियोज्यानि न शिरस् तत्र वै भृगुः ॥
न शङ्कासु शिरः कोशे कल्पयेत् तु कदाचन ।
अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥
शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥
दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।
विंशद्दशविनाशे वै कोशपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः ।
तदर्धार्धस्य नाशे तु स्पृशेत् पुत्रादिमस्तकम् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0