भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 381-400

381

प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगित्वाद् व्यवहारान्तरं न च ॥

382

साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान् सर्वान् वाच्यः प्रत्युत्तरं ततः ॥

383

प्रतिपत्तौ तु साक्षित्वम् अर्हन्ति न कदाचन ।
अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥

384

अभावयन् धनम् दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥

385

आकारो ऽङ्गितचेष्टाभिस् तस्य भावं विभावयेत् ।
प्रतिवादी भवेद् धीनः सो ऽनुमानेन लक्ष्यते ॥

386

कम्पः स्वेदो ऽथ वैकल्यम् ओष्ठशोषाभिमर्शने ।
भूलेखनं स्थानहानिस् तिर्यगूर्ध्वनिरीक्षणम् ।
स्वरभेदश् च दुष्टस्य चिह्नान्य् आहुर् मनीषिणः ॥

387

सभान्तःस्थैस् तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ह्य् अन्यत्र स्थावरेषु तु ॥

388

अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।
प्रत्यक्षं देशयेत् सक्ष्यं परोक्षं न कथंचन ॥

389

अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् ।
चतुष्पदेष्व् अयं धर्मो द्विपदस्थावरेषु च ॥

390

तौल्यगणिममेयानाम् अभावे ऽपि विवादयेत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततो ऽन्यथा ॥

391

वधे चेत् प्राणिनां साक्ष्यं वादयेच् छिवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥

392

स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥

393

स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥

394

समवेतैस् तु यद् दृष्टं वक्तव्यं तत् तथैव तु ।
विभिन्नैकैककार्यं यद् वक्तव्यं तत् पृथक् पृथक् ॥

395

भिन्नकाले तु यत् कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत् तत्र भिन्नकालं तु तद् भृगुः ॥

396

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥

397

साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्पितम् ॥

398

ऊनाधिकं तु यत्र स्यात् तत् साक्ष्यं तत्र वर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥

399

देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद् यत्र साक्ष्ये तद् अनुक्तं विदुर् बुधाः ॥

400

निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc