भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 361-380

361

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास् ते तु न साक्षिणः ॥

362

मातृष्वसृसुताश् चैव सोदर्यासुतमातुलाः ।
एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् ॥

363

कुल्याः संबन्धिनश् चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश् च श्वशुरो गुरवस् तथा ॥

364

नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।
वल्लभाश् च न पृच्छेयुर् भक्तास् ते राजपूरुषाः ॥

365

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चैव परीक्षा कुत्रचित् स्मृता ॥

366

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥

367

अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच् च यद् भवेत् ।
एतेष्व् एवाभियोगश् चेन् न परीक्षेत साक्षिणः ॥

368

न साक्ष्यं साक्षिभिर् वाच्यम् अपृष्टैर् अर्थिना सदा ।
न साक्ष्यं तेषु विद्येत स्वयम् आत्मनि योजयेत् ॥

369

लेख्यारूढश् चोत्तरश् च साक्षी मार्गद्वयान्वितः ॥

370

अथ स्वहस्तेनारूढस् तिष्ठंश् चैकः स एव तु ।
न चेत् प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत् ॥

371

अर्थिना स्वयम् आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकाद् ऋते ॥

372

यस् तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्य् अर्थिना साक्षी स स्मारित इहोच्यते ॥

373

प्रयोजनार्थम् आनीतः प्रसङ्गाद् आगतश् च यः ।
द्वौ साक्षिणौ त्व् अलिखितौ पूर्वपक्षस्य साधकौ ॥

374

अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते ॥

375

साक्षिणाम् अपि यः साक्ष्यम् उपर्युपरि भाषते ।
श्रवणाच् छ्रावणाद् वापि स साक्ष्युत्तरसंज्ञितः ॥

376

उल्लप्यं यस्य विश्रम्भात् कार्यं वा विनिवेदितम् ।
गूढचारी स विज्ञेयः कार्यम् अध्यगतस् तथा ॥

377

अर्थी यत्र विपन्नः स्यात् तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी च मृतो यत्र तत्राप्य् एवं प्रकल्प्यते ॥

378

लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥

379

उक्तेर् अर्थे साक्षिणो यस् तु दूषयेत् प्राग्दूषितान् ।
न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥

380

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc