भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 341-360

341

सम्यक्क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात् सद्यः स्पष्टं विवादयेत् ॥

342

सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥

343

यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥

344

देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥

345

आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥

346

अर्थिप्रत्यर्थिसांनिध्याद् अनुभूतं तु यद् भवेत् ।
तद् ग्राह्यं साक्षिणो वाक्यम् अन्यथा न बृहस्पतिः ॥

347

प्रख्यातकुलशीलाश् च लोभमोहविवर्जिताः ।
आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यम् असंशयम् ॥

348

विभाव्यो वादिना यादृक् सदृशैर् एव भावयेत् ।
नोत्कृष्टश् चावकृष्टस् तु साक्षिभिर् भावयेत् सदा ॥

349

लिङ्गिनः श्रेणिपूगाश् च वणिग्व्रातास् तथापरे ।
समूहस्थाश् च ये चान्ये वर्गास् तान् अब्रवीद् भृगुः ॥

350

दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकं समूहानां नायका वर्गिणस् तथा ।
तेषां वादः स्ववर्गेषु वर्गिणस् तेषु साक्षिणः ॥

351

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥

352

अशक्य आगमो यत्र विदेशप्रतिवासिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ॥

353

अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्य् एको ऽपि दूतकः ॥

354

संस्कृतं येन यत् पण्यं तत् तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥

355

लेखकः प्राङ्विवाकश् च सभ्याश् चैवानुपूर्वशः ।
नृपे पश्यति यत् कार्यं साक्षिणः समुदाहृताः ॥

356

अन्ये पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश् च प्राङ्विवाकश् च राजा च व्यवहारिणाम् ॥

357

कार्येष्व् अभ्यन्तरो यश् च अर्थिना प्रहितश् च यः ।
कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥

358

रिक्थभागविवादे तु संदेहे समुपस्थिते ।
कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ॥

359

साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥

360

अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc