भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 321-340

321

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥

322

आदौ तु कारणं मध्ये भुक्तिस् तु सागमा (?) ।
कारणं भुक्तिर् एवैका संतता या त्रिपौरुषी ॥

323

आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥

324

येनोपात्तं हि यद् द्रव्यं सो ऽभियुक्तस् तद् उद्धरेत् ।
चिरकालोपभोगे ऽपि भुक्तिस् तस्यैव नेष्यते ॥

325

चिरन्तनम् अविज्ञातं भोगं लोभान् न चालयेत् ॥

326

पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन् प्रेते न वाच्यो ऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥

327

त्रिभिर् एव तु या भुक्ता पुरुषैर् भू यथाविधि ।
लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥

328

यथा क्षीरं जनयति दधि कालाद् रसान्वितम् ।
दानहेतुस् तथा कालाद् भोगस् त्रिपुरुषागतः ॥

329

भुक्तिर् बलवती शास्त्रे संतता या चिरन्तनी ।
विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ॥

330

न भोगं कल्पयेत् स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित् ते च मातृतः पितृतः क्रमात् ॥

331

ब्रह्मचरी चरेत् कश्चिद् अव्रतं षट्त्रिंशदाब्दिकम् ।
अर्थार्थी चान्यविषये दीर्घकालं वसेन् नरः ॥

332

समावृत्तो ऽव्रती कुर्यात् स्वधनान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस् तद् धनस्यापहारकः ॥

333

प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥

334

सुहृद्भिर् बन्धुभिश् चैषां यत् स्वं भुक्तम् अपश्यताम् ।
नृपापराधिनां चैव न तत् कालेन हीयते ॥

335

सनाभिभिर् बान्धवैश् च यद् भुक्तं स्वजनैस् तथा ।
भोगात् तत्र न सिद्धिः स्याद् भोगम् अन्यत्र कल्पयेत् ॥

336

अर्थिनाभ्यर्थितो यस् तु विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परस् तद् ऋणी भवेत् ॥

337

दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या ।
चित्तापनयनं चैव हेतवो हि विभावकाः ॥

338

एषाम् अन्यतमो यत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद् भाविते वादिनिह्नवे ॥

339

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥

340

उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर् भाषितं वाक्यं सभ्यैः सह परीक्षयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc