भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 301-320

301

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ॥

302

आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ।
मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ॥

303

प्राप्तं वानेन चेत् किञ्चिद् दानं चाप्य् अनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥

304

यदि लब्धं भवेत् किञ्चित् प्रज्ञप्तिर् वा कृता भवेत् ।
प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥

305

दर्शितं प्रतिकालं यद् ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि च साक्षिषु ॥

306

न दिव्यैः साक्षिभिर् वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्य् अतो नान्येन हीयते ॥

307

तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥

308

दर्पणस्थं यथा बिम्बम् असत्सद् इव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥

309

द्रव्यं गृहीत्वा यल् लेख्यं परस्मै संप्रदीयते ।
छन्नम् अन्येन चारूढं संयतं चान्यवेश्मनि ॥

310

दत्ते वृत्ते ऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके ।
एष एव विधिर् ज्ञेयो लेख्यशुद्धिविनिर्णये ॥

311

स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥

312

मलैर् यद् भेदितं दग्धं छिद्रितं वीतम् एव वा ।
तद् अन्यत् कारयेल् लेख्यं स्वेदेनोल्लिखितं तथा ॥

313

लिखितं साक्षिणो भुक्तिः प्रमाणत्रयम् इष्यते ।
प्रमाणेषु स्मृता भुक्तेः सल् लेखसमता नृणाम् ॥

314

रथ्यानिर्गमनद्वार जलवाहादिसंशये ।
भुक्तिर् एव तु गुर्वी स्यात् प्रमाणेष्व् इति निश्चयः ॥

315

अनुमानाद् गुरुः सक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥

316

नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥

317

भुक्तिस् तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपुरुषी या स्वतन्त्रा सा चेद् अल्पा तु सागमा ॥

318

मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिर् एतैर् अविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ॥

319

सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् ।
आहर्ता लभते तत् तु नापहार्यं तु तत् क्वचित् ॥

320

प्रनष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc