भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 281-300

281

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत् कूटं न चेत् कर्ता कृतं हीति विभावयेत् ॥

282

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते ।
पत्रस्थैः साक्षिभिर् वाच्यो लेखकस्य मतेन वा ॥

283

कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ।
दूषिते पत्रके वादी तदारूढांस् तु निर्दिशेत् ॥

284

त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत् ततः ॥

285

अथ पञ्चत्वम् आपन्नो लेखकः सह साक्षिभिः ।
तत्स्वहस्तादिभिस् तेषां विशुध्येत् तु न संशयः ॥

286

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥

287

समुद्रे ऽपि लेख्ये मृताः सर्वे ऽपि ते स्थिताः (?) ।
लिखितं तत्प्रमाणं तु मृतेष्व् अपि हि तेषु च ॥

288

प्रत्यक्षम् अनुमानेन न कदाचित् प्रबाध्यते ।
तस्माल् लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥

289

निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ।
लिखितं लिखितेनैव साक्षिमत्साक्षिभिर् हरेत् ॥

290

कूटोक्तौ साक्षिणां वाक्याल् लेखकस्य च पत्रकम् ।
नयेच् छुद्धिं न यः कूटं स दाप्यो दमम् उत्तमम् ॥

291

आढ्यस्य निकटस्थस्य यच् छक्तेन न याचितम् ।
शुद्धर्णशङ्कया तत् तु लेख्यं दुर्बलताम् इयात् ॥

292

लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् ।
न तत् सिद्धिम् अवाप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥

293

प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
नैव याचेत ऋणिकं न तत् सिद्धिम् अवाप्नुयात् ॥

294

पश्चात् कारनिबद्धं यत् तद् यत्नेन विचारयेत् ।
यदि स्याद् युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥

295

अन्यथा दूरतः कार्यं पुनर् एव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।
निवर्त्यं तत्प्रमाणं स्याद् यत्नेनापि कृतं नृपैः ॥

296

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राज्ञः स्वहस्तसंशुद्धं शुद्धिम् आयाति शासनम् ॥

297

निर्दोषं प्रथितं यत् तु लेख्यं तत् सिद्धिम् आप्नुयात् ॥

298

दृष्टे पत्रे स्फुटान् दोषान् नोक्तव् आनृणिको यदि ।
ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ॥

299

शक्तस्य संनिधाव् अर्थे येन लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत् पत्रं दोषवर्जितम् ॥

300

अथ विंशतिवर्षाणि आधिर् भुक्तः सुनिश्चितम् ।
तेन लेख्येन तत् सिद्धिर् लेख्यदोषविवर्जिता ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc