कात्यायनस्मृति · श्लोक 261-280
सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥
सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥
सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविध्हौ तद्वत् स्वहस्तं तत्र दापयेत् ॥
अनेन विधिना लेख्यं पश्चात्कारं विदुर् बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥
अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच् च स्याज् जयपत्रकम् ॥
राजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥
वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिम् आप्नुयात् ॥
देशाचारयुतं वर्षम् आसपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानाम् हस्ताङ्गम् लेख्यम् उच्यते ॥
स्थानभ्रष्टास् त्व् अपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।
यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥
देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥
मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर् बालास्वतन्त्रैश् च कृतं लेख्यं न सिध्यति ॥
ख्यापितं चेद् द्वितीये ऽह्नि न कश्चिद् विनिवर्तयेत् ।
तथा तत् स्यात् प्रमाणं तु मत्तोन्मत्तकृताद् ऋते ॥
साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात् तथा धारणिकस्य वा ॥
दुष्टैर् दुष्टं भवेल् लेख्यं शुद्धं शुद्धैर् विनिर्दिशेत् ।
तत् पत्रम् उपधादुष्टैः साक्षिलेखककारकैः ॥
प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥
साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर् लेख्यं प्रदुष्यात ॥
न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥
नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥
एवं दुष्टं नृपस्थाने यस्मिंस् तद् धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान् निरूपयेत् ॥
येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल् लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0