भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 241-260

241

प्रमाणैर् हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्व् एव विवादेषु सदा कुर्यान् नराधिपः ॥

242

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर् हेतुं तर्कं चैव मनीषिणः ॥

243

पूर्वाभावे परेणैव नान्यथैव कदाचन ।
प्रमाणैर् वादिनिर्दिष्टैर् भुक्त्या लिखितसाक्षिभिः ॥

244

न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥

245

मिथ्योक्तौ स चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये स च विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥

246

पराजयश् च द्विविधः परोक्तः स्वोक्त एव च ।
परोक्तः स्याद् दशविधः स्वोक्त एकविधः स्मृतः ॥

247

विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता ।
दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥

248

अनिर्देशश् च देशस्य निर्देशो ऽदेशकालयोः ।
साक्षिणाम् उपजापश् च विद्वेषो वचनस्य च ॥

249

लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥

250

ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥

251

उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् ।
स्मरत्य् एवं प्रयुक्तस्य नश्येद् अर्थस् त्व् अलेखितः ॥

252

लेख्यं तु साक्षिमत्कार्यम् अविलुप्ताक्षरक्रमम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥

253

वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत् सिद्धिम् आप्नुयात् ॥

254

चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः ।
तत्सिध्यर्थं तु यल् लेख्यं तद् भवेत् स्थितिपत्रकम् ॥

255

अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥

256

उत्तमेषु समस्तेषु अभिशापे समागते ।
वृत्तानुवादलेख्यं यत् तज् ज्ञेयं सन्धिपत्रकम् ॥

257

सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥

258

राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥

259

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा ।
निर्णयश् च यथा तस्य यथा चावधृतं स्वयम् ॥

260

एतद् यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।
अभियोक्तृअभियुक्तानां वचनं प्राङ् निवेशयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc