कात्यायनस्मृति · श्लोक 221-240
क्रियां बलवतीं मुक्त्वा दुर्बलां यो ऽवलम्बते ।
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥
सारभूतं पदं मुक्त्वा असाराणि बहून्य् अपि ।
संसाधयेत् क्रिया या तु तां जह्यात् सारवर्जिताम् ।
पक्षद्वयं साधयेद् या तां जह्याद् दूरतः क्रियाम् ॥
क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥
कालेन हीयते लेख्यं दूषितं न्यायतस् तथा ।
अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥
द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिर् एव हि गुर्वी स्यान् न लेख्यं न च साक्षिणः ॥
दत्तादत्ते ऽथ भृत्यानां स्वामिना निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनम् अयच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥
प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव वा ॥
गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर् नृणाम् ॥
उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥
समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु ।
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ॥
ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥
चोदना प्रतिकालं च युक्तिलेशस् तथैव च ।
तृतीयः शपथः प्रोक्तः तैर् ऋणं साधयेत् क्रमात् ॥
अभीक्ष्णं चोद्यमानो ऽपि प्रतिहन्यान् न तद्वचः ।
त्रिः चतुः पञ्चकृत्वो वा परतो ऽर्थं समाचरेत् ॥
चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः ॥
युक्तिष्व् अप्य् असमर्थासु शपथैर् एव निणयेत् ।
अर्थकालबलापेक्षैर् अग्न्यम्बुसुकृतादिभिः ॥
यत्र स्यात् सोपधं लेख्यं तद्राज्ञः श्रावितं यदि ।
दिव्येन शोधयेत् तत्र राजा धर्मासनस्थितः ॥
वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥
स्थावरेषु विवादेषु दिव्यानि परिधारयेत् ।
साक्षिभिर् लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0