भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 201-220

201

व्याजेनैव तु यत्रासौ दीर्घकालम् अभीप्सति ।
सापदेशं तु तद् विद्याद् वादहानिकरं स्मृतम् ॥

202

अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ।
आहूतप्रपलायी च पणान् ग्राह्यस् तु विंशतिम् ॥

203

त्रिर् आहूतम् अनायान्तम् आहूतप्रपलायिनम् ।
पञ्चरात्रम् अतिक्रान्तं विनयेत् तं महीपतिः ॥

204

श्रावितव्यवहाराणाम् एकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच् चैव हीनं तम् इति निर्दिशेत् ॥

205

भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनोर् अर्थस्य व्यवहारे स हीयते ॥

206

दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ।
उभयोर् लिखिते वाच्ये प्रारब्धे कार्यनिश्चये ।
अयुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् स हीयते ॥

207

साक्षिणो यस् तु निर्दिश्य कामतो न विवादयेत् ।
स वादी हीयते तस्मात् त्रिंशद्रात्रात् परेण तु ॥

208

पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥

209

यो हीनवाक्येन जितस् तस्योद्धारं विदुर् बुधाः ।
स्ववाक्यहीनो यस् तु स्यात् तस्योद्धारो न विद्यते ॥

210

आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान् नृपस्य ते ॥

211

कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरत्वं प्रपद्यते ।
अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥

212

शोधिते लिखिते सम्यग् इति निर्दोष उत्तरे ।
प्रत्यर्थिनो ऽर्थिनो वापि क्रियाकरणम् इष्यते ॥

213

वादिना यद् अभिप्रेतं स्वयं साधयितुम् स्फुटम् ।
तत् साध्यं साधनं येन तत् साध्यं साध्यते ऽखिलम् ॥

214

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।
लेशोद्देशस् तु युक्तिः स्याद् दिव्यानीह विषादयः ॥

215

पूर्ववादे ऽपि लिखिते यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥

216

कार्यं हि साध्यम् इत्य् उक्तं साधनं तु क्रियोच्यते ।
द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा ।
मानुषी लिख्यसाक्ष्यादिर् वधादिर् दैविकी मता ॥

217

संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत् क्रियां ।
संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥

218

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥

219

यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥

220

पञ्चप्रकारं दैवं स्यान् मानुषं त्रिविधं स्मृतम् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc