भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 181-200

181

बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तम् एतन् मन्यन्ते तद् अन्यार्थम् इतीरितम् ॥

182

अस्मै दत्तं मया सार्धं सहस्रम् इति भाषिते ।
प्रतिदत्तं तदर्धं यत् तद् इहाव्यापकं स्मृतम् ॥

183

पूर्ववादी क्रियां यावत् सम्यङ् नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद् व्यस्तपदम् उच्यते ॥

184

तत्किं तामरसं कश्चिद् अगृहीतं प्रदास्यति ।
निगूढार्थं तु तत् प्रोक्तम् उत्तरं व्यवहारतः ॥

185

किं तेनैव सदा देयं मया देयं भवेद् इति ।
एतद् अकुलम् इत्य् उक्तम् उत्तरं तद्विदो विदुः ॥

186

काकस्य दन्ता नो सन्ति सन्तीत्यादि यद् उत्तरम् ।
असारम् इति तत्त्वेन सम्यङ् नोत्तरम् इष्यते ॥

187

प्रस्तुताद् अल्पम् अव्यक्तं न्यूनाधिकम् असङ्गतम् ।
अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥

188

संदिग्धम् अन्यत्प्रकृताद् अत्यल्पम् अतिभूरि च ।
पक्षैकदेशव्याप्येव तत् तु नैवोत्तरं भवेत् ॥

189

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात् तद् अनुत्तरम् ॥

190

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥

191

प्रपद्य कारणं पूर्वम् अन्यद्गुरुतरं यदि ।
प्रतिवाक्यगतं ब्रूयात् साध्यते तद् धि नेतरत् ॥

192

यथार्थम् उत्तरं दद्याद् अयच्छन्तं च दापयेत् ।
सामभेदादिभिर् मार्गैर् यावत् सो ऽर्थः समुत्थितः ॥

193

मोहाद् वा यदि वा शाठ्याद् यन् नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं चापि तद्ग्राह्यम् उभयोर् अपि ॥

194

उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दातुम् अर्हति ॥

195

श्रावयित्वा यथाकार्यं त्यजेद् अन्यद् वदेद् असौ ।
अन्यपक्षाश्रयस् तेन कृतो वादी स हीयते ॥

196

न मयाभिहितं कार्यम् अभियुज्य परं वदेत् ।
विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥

197

लेखयित्वा तु यो वाक्यंं हीनं वाप्य् अधिकं पुनः ।
वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥

198

सभ्याश् च साक्षिणश् चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥

199

आह्वानाद् अनुपस्थानात् सद्य एव प्रहीयते ॥

200

ब्रूहीत् युक्तो ऽपि न ब्रूयात् सद्यो बन्धनम् अर्हति ।
द्वितीये ऽहनि दुर्बुद्धेर् विद्यात् तस्य पराजयम् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc