कात्यायनस्मृति · श्लोक 161-180
दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् ।
अबाधत्यागमात्रेण न भवेत् स पराजितः ॥
दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्म्येन वर्तमानस्य दण्डो दाप्यस् तु तद्धनम् ॥
अभियुक्तो ऽभियोक्तारम् अभियुञ्जीत कर्हिचित् ।
अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् ॥
यावन् यस्मिन् समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायम् उत्तरं दापयेन् नृपः ॥
सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥
श्रुत्वा भाषार्थम् अन्यस् तु यदा तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयम् उत्तरं ॥
अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥
साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ॥
मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥
यो ऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयाद् आधर्यं गुरुर् अब्रवीत् ॥
आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥
विभावयामि कुलिकैः साक्षिभिर् लिखितेन वा ।
जितश् चैव मयायं प्राक् प्राङ्न्यायस्त्रिप्रकारकः ॥
अप्रसिद्धं विरुद्धं यद् अत्यल्पम् अतिभूरि च ।
संदिग्धासंभवाव्यक्तम् अन्यार्थं चातिदोषवत् ॥
अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं शस्यते बुधैः ॥
यद्व्यस्तपदम् अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥
चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तम् अप्रसिद्धं तद् उत्तरम् ॥
प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यद् एवम् आह विज्ञेयं विरुद्धं तद् इहोत्तरं ॥
जितः पुरा मयायं च त्व् अर्थे ऽस्मिन्न् इति भाषितुम् ।
पुरा मयायम् इति यत् तद् ऊनं चोत्तरं स्मृतम् ॥
गृहीतम् इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद् द्रव्यम् इति यच् चातिभूरि तत् ॥
देयं मयेति वक्तव्ये मयादेयम् इतीदृशम् ।
संदिग्धम् उत्तरं ज्ञेयं व्यवहारे बुधैस् तदा ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0