कात्यायनस्मृति · श्लोक 141-160
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।
विरोधिकारणैर् मुक्तो विरोधिप्रतिषेधकः ॥
यदा त्व् एवं विधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥
श्राव्यमाणो ऽर्थिना यत्र यो ह्य् अर्थो न विघातितः ।
दानकाले ऽथवा तूष्णीं स्थितः सो ऽर्थो ऽनुमोदितः ॥
श्रुत्वा लेख्यगतं त्व् अर्थं प्रत्यर्थी कारणाद् यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ॥
सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥
कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥
दिनं मासार्धमासौ वा ऋतुः संवत्सरो ऽपि वा ।
क्रियास्थित्यनुरूपस् तु देयं कालः परेण तु ॥
व्यपैति गौरवं यत्र विनाशस् त्याग एव वा ।
कालं तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥
धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥
कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥
साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत् क्षिप्रम् अकाले ऽपि बृहस्पतिः ॥
सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥
सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।
षडाब्दिके त्रिरात्रं स्यात् सप्ताहं द्वादशाब्दिके ॥
विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥
कालं संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् ।
संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते ॥
दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।
मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ॥
तत्र कालो भवेत् पुंसाम् आ स्वदेशसमागमात् ।
दत्ते ऽपि काले देयं स्यात् पुनः कार्यस्य गौरवात् ॥
पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ॥
आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये ।
नोपस्थितो यदा कश्चिच् छलं तत्र न कारयेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0