भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 121-140

121

तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् अन्ते सदस्यास्तु प्राड्विवाकस् ततः परम् ॥

122

यस्य स्याद् अधिका पीडा कार्यं वाप्य् अधिकं भवेत् ।
पूर्वपक्षो भवेत् तस्य न यः पूर्वं निवेदयेत् ॥

123

यस्य वार्थगता पीडा शारीरी वाधिका भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥

124

निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥

125

साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥

126

क्रमात् पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥

127

देशश् चैव तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञा निवासश् च प्रमाणं क्षेत्रनाम च ॥

128

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥

129

रागादीनां यद् एकेन कोपितः करणे वदेत् ।
तद् ओम् इति लिखेत् सर्वं वादिनः फलकादिषु ॥

130

अधिकान् शोधयेद् अर्थान् न्यूनांश् च प्रतिपूरयेत् ।
भूमौ निवेशयेत् तावद् यावत् पक्षः प्रतिष्ठितः ॥

131

पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥

132

अन्यद् उक्तं लिखेद् अन्यद् यो ऽर्थिप्रत्यर्थिनां वचः ।
चौरवच् छासयेत् तं तु धार्मिकः पृथिवीपतिः ॥

133

सोल्लेखनं वा लभते त्र्य् अहं सप्ताहम् एव वा ।
मतिर् उत्पद्यते यावद् विवादे वक्तुम् इच्छतः ॥

134

यस्मात् कार्यसमारम्भाच् चिरात् तेन विनिश्चयः ।
तस्मात् न लभते कालम् अभियुक्तस् तु कालभाक् ॥

135

मतिर् नोत्सहते यत्र विवादे कार्यम् इच्छतोः ।
दातव्यस् तत्र कालः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥

136

यश् च राष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥

137

बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥

138

देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥

139

न्यायस्थं नेच्छते कर्तुम् अन्यायं वा करोत्य् अयम् ।
न लेखयति यत् त्व् एवं तस्य पक्षो न सिध्यति ॥

140

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc