भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 101-120

101

हीने कर्माणि पञ्चाशन् मध्यमे द्विशतावरः ।
गुरुकार्येषु दण्डः स्यान् नित्यं पञ्चशतावरः ॥

102

कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥

103

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचम् आनाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥

104

आवेद्य तु नृपे कार्यम् असंदिग्धे प्रतिश्रुते ।
तदासेधं प्रयुञ्जीत यावद् आह्वानदर्शनम् ॥

105

आसेधयोग्य आसिद्ध उत्क्रामन् दण्डम् अर्हति ॥

106

यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेद् अनासेध्यं स दण्ड्यो न त्व् अतिक्रमी ॥

107

वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥

108

व्याध्यार्ता व्यसनस्थाश् च यजमानास् तथैव च ।
अनुत्तीर्णाश् च नासेध्या मत्तोन्मत्तजडास् तथा ॥

109

न कर्षको बीजकाले सेनाकाले तु सैनिकः ।
प्रतिज्ञाय प्रयातश् च कृतकालश् च नान्तरा ॥

110

उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात् संग्रहं यावत् तत्कालं न विवादयेत् ।
आसेधयंस् त्व् अनासेध्यं रज्ञा शास्य इति स्थितिः ॥

111

अभियुक्तश् च रुद्धश् च तिष्ठेयुश् च नृपाज्ञया ।
न तस्यान्येन कर्तव्यम् अभियुक्तं विदुर् बुधाः ॥

112

एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ॥

113

देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ॥

114

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संशयस्थाश् च न क्वचित् ॥

115

नैव रिक्थी न रिक्तश् च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश् च ये च प्रव्रजिता नराः ॥

116

नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥

117

अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥

118

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद् बाह्यचारिभिः ।
शूद्रादीन् प्रतिभूहीनान् बन्धयेन् निगडेन तु ॥

119

अतिक्रमे ऽपयाते च दण्डयेत् तं पणाष्टकम् ।
नित्यकर्मापरोधस् तु कार्यः सर्ववर्णिनाम् ॥

120

ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात् स्थापयेद् वा परस्य तत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc