कात्यायनस्मृति · श्लोक 081-100
सभ्यदोषात् तु यन् नष्टं देयं सभ्येन तत् तदा ।
कार्यं तु कार्यिणाम् एव निश्चितं न विचालयेत् ॥
कुलानि श्रेणयश् चैव गणस् त्व् अधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥
तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ॥
सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् ।
उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ॥
गोत्रस्थितिस् तु या तेषां क्रमाद् आयाति धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत् तं तथैव तु ॥
काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतः ।
एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणः सहः ॥
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ।
मुद्रां वा निक्षिपेत् तस्मिन् पुरुषं वा समादिशेत् ॥
समर्पितो ऽर्थिना यो ऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥
अधिकारो ऽभियुक्तस्य नेतरस्यास्त्य् असङ्गतेः ।
इतरो ऽप्य् अभियुक्तेन प्रतिरोधिकृतो मतः ॥
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥
दासाः कर्मकराः शिष्या नियुक्ता बान्धवास् तथा ।
वादिनो न च दण्ड्याः स्युः यस् त्व् अतो ऽन्यः स दण्डभाक् ॥
ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येषु चातिपापेषु प्रतिवादी न दीयते ॥
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्ता तु विवदेत् स्वयम् ॥
धर्मोत्सुकान् अभ्युदये रोगिणो ऽथ जडान् अपि ।
अस्वस्थमत्तोन्मत्तार्त स्त्रियो नाह्वानयेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥
सशस्त्रो ऽनुत्तरीयो वा मुक्तकेशः सहासनः ।
वामहस् तेन वा वादं वदन् दण्डम् अवाप्नुयात् ॥
आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0