भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 061-080

061

दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥

062

आद्याद् अह्नो ऽष्टभागाद् यद् ऊर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥

063

यदा कुर्यान् न नृपतिः स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥

064

दक्षं कुलीनमध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥

065

अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः ।
उत्साहवान् अलुब्धश् च वादे योज्यो नृपेण तु ॥

066

एकशास्त्रम् अधीयानो न विद्यात् कार्यनिश्चयम् ।
तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥

067

ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥

068

अतो ऽन्यैर् यत् कृतं कार्यम् अन्यायेन कृतं तु तत् ।
नियुक्तैर् अपि विज्ञेयं दैवाद् यद्य् अपि शास्त्रतः ॥

069

व्यवहाराश्रितं प्रश्नं पृच्छति प्राङ् इति स्थितिः ।
विवेचयति यस् तस्मिन् प्राड्विवाकस् ततः स्मृतः ॥

070

अनिर्णीते तु यद्य् अर्थे संभाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्याश् चैव विशेषतः ॥

071

अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः ।
सर्वशास्त्रप्रवीणाश् च सभ्याः कार्या द्विजोत्तमाः ॥

072

न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥

073

यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥

074

अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्य् अधोमुखाः ॥

075

अन्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥

076

न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् ॥

077

सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात् तु सभ्यस् ततो ऽनघः ॥

078

अधर्माय यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस् तदा कार्यं निवर्तयेत् ॥

079

स्नेहाद् अज्ञानतो वापि लोभाद् वा मोहतो ऽपि वा ।
तत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥

080

कार्यस्य निर्णयं सम्यग् ज्ञात्वा सभ्यस् ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc