कात्यायनस्मृति · श्लोक 041-060
निर्णयं तु यदा कुर्यात् तेन धर्मेण पार्थिवः ।
व्यवहारश् चरित्रेण तदा तेनैव बाध्यते ॥
विरुद्धं न्यायतो यत् तु चरित्रं कल्प्यते नृपैः ।
एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥
अनेन विधिना युक्तं बाधकं यद् यद् उत्तरम् ।
अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥
अस्वर्ग्या लोकनाशाय परानीकभयावहा ।
आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥
तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ॥
यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥
देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर् धर्म शास्त्रतो ऽन्येषु तैः सह ॥
देशस्यानुमतेनैव व्यवस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजम् उद्रया ॥
शास्त्रवद् यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ।
नैगमस्थैस् तु यत् कार्यं लिखितं यद् व्यवस्थितम् ॥
तस्मात् तत् संप्रवर्तेत नान्यथैव प्रवर्तयेत् ।
प्रमाणदेशदृष्टं तु यद् एवम् इति निश्चितम् ॥
अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् ।
नान्यथा तत् पुनः कार्यं न्यायापेतं विवर्जयेत् ॥
धर्मशास्त्रविचारेण मूलसारविवेचनम् ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥
प्रातर् उत्थाय नृपतिः शौचं कृत्वा समाहितः ।
गुरुं ज्योतिर्विदं वैद्यान् देवान् विप्रान् पुरोहितान् ॥
यथार्हम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवन्द्य च गुर्वादीन् सुमुखां प्रविशेत् सभाम् ॥
विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखः स्थित्वा पश्येत् कार्याणि कार्यिणाम् ।
सह त्रैविद्यवृद्धैश् च मन्त्रज्ञैश् चैव मन्त्रिभिः ॥
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥
सह सभ्यैः स्थिरैर् युक्तैः प्राज्ञैर् मौलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥
कुलशीलवयोवृत्त वित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥
श्रोतारो वणिजस् तत्र कर्तव्या न्यायदर्शिनः ॥
सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः ।
कुर्याच् छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0