कात्यायनस्मृति · श्लोक 021-040
दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् ।
न प्रजानुमतो यस्माद् अन्यायेषु प्रवर्तते ॥
अक्लेशेनार्थिने यस् तु राजा सम्यङ् निवेदयेत् ।
तत् तारयत्य् अनन्तं स्याद् धर्मार्थं दानम् ईदृशम् ॥
न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः ।
तच् छुद्धं तत्प्रदेयं तन् नान्यथोपहृतं क्वचित् ॥
राजा पुरोहितं कुर्याद् उदितं ब्राह्मणं हितम् ।
कृताध्ययनसंपन्नम् अलुब्धं सत्यवादिनम् ॥
प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥
वि नानार्थे ऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥
न राजा तु विशित्वेन धनलोभेन वा पुनः ।
स्वयं कार्याणि कुर्वीत नराणाम् अविवादिनाम् ॥
उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचम् आनय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥
द्विपदे साध्यभेदात् तु पदाष्टादशतां गते ।
अष्टादश क्रियाभेदाद् भिन्नान्य् अष्टसहस्रशः ॥
साध्यवादस्य मूलं स्याद् वादिना यन् निवेदितम् ।
देयाप्रदानं हिंसा चेत्य् उत्थानद्वयम् उच्यते ॥
पूर्वपक्षश् चोत्तरं च प्रत्याकलितम् एव च ।
क्रियापादश् च तेनायं चतुष्पात् समुदाहृतः ॥
धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयम् उदाहृतम् ।
जयश् चैवावसायश् च द्वे फले समुदाहृते ॥
शास्त्रेण निन्दितं त्व् अर्थ मुख्यो राज्ञा प्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥
नृपेणैव नियुक्तो यः पददोषम् अवेक्षितुम् ।
नृपस्य सूचयेज् ज्ञात्वा सूचकः स उदाहृतः ॥
दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।
विवादे प्राप्नुयाद् यत्र धर्मेणैव स निर्णयः ॥
स्मृतिशास्त्रं तु यत् किंचित् प्रथितं धर्मसाधकैः ।
कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥
यद् यद् आचर्यते येन धर्म्यं वाधर्म्यम् एव वा ।
देशस्याचरणान् नित्यं चरित्रं तत्प्रकीर्तितम् ॥
न्यायशास्त्राविरोधेन देशदृष्टेस् तथैव च ।
यं धर्मं स्थापयेद् राजा न्याय्यं तद्राजशासनम् ॥
युक्तियुक्तं तु कार्यं स्याद् दिव्यं यत्र विवर्जितम् ।
धर्मस् तु व्यवहारेण बाध्यते तत्र नान्यथा ॥
प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।
विरुद्धं नियतं प्राहुस् तं धर्मं न विचालयेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0