कात्यायनस्मृति · श्लोक 001-020
विनीतः शास्त्रसंपन्नः कोशशौर्यसमन्वितः ।
ब्रह्मण्यो दानशीलः स्यात् सत्यधर्मपरो नृपः ॥
स्तम्भोपतापपैशुन्य चापलक्रोधवर्जितः ।
प्रगल्भः सन्नतोदग्रः संभाषी प्रियदर्शनः ॥
वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते ॥
शौर्यविद्यार्थबाहुल्यात् प्रभुत्वाच् च विशेषतः ।
सदा चित्तं नरेन्द्राणां मोहम् आयाति कारणात् ॥
तस्माच् चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः ।
पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥
वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः ।
ते ऽपि तत्र प्रमोदन्ते तृप्तास् तु द्विजपूजनात् ॥
तस्माद् यत्नेन कर्तव्या द्विजपूजा सदा नृपैः ।
तेन भूयो ऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥
सुराध्यक्षश् च्युतः स्वर्गान् नृपरूपेण तिष्ठति ।
कर्तव्यं तेन तन् नित्यं येन तत्त्वं समाप्नुयात् ॥
आत्मीये संस्थिता धर्मे नृपाः शक्रत्वम् आप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥
गच्छेत् सम्यगविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत् स नरकं घोरे कल्पार्धं तु न संशयः ॥
एतैर् एव गुणैर् युक्तम् अमात्यं कार्यचिन्तकम् ।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् ॥
मन्त्रिणो यत्र सभ्याश् च वैद्याश् च प्रियवादिनः ।
राज्याद् धर्मात् सुखात् तत्र क्षिप्रं हीयेत पार्थिवः ॥
न तस्य वचने कोपम् एतेषां तु प्रवर्तयेत् ।
यस्माद् एतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥
यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः ।
तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥
प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् ।
द्विजानां पूजनं चैव एतद् अर्थं कृतो नृपः ॥
भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा ।
तत्फलस्य हि षड्भागं प्राप्नुयान् नान्यथैव तु ॥
भूतानां तन्निवासित्वात् स्वामित्वं तेन कीर्तितम् ।
तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् ॥
एवं प्रवर्तते यस् तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश् च वर्धते ॥
अन्यायेन हि यो राष्ट्रात् करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्य् आददीत स पापभाक् ॥
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आव्रजेत् ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0