कठिनावदान · अध्याय 31
पुण्यं नराणां तमसि प्रदीपो
भयेषु रक्षा व्यसनेषु बन्धुः ।
रुजासु भैषज्यम् अनुत्तरं च
प्लवं च संसारमहासमुद्रे ॥
दानेन भोगा न परोपतापाच्
छीलेन स्वर्गो न गिरिप्रपातात् ।
सत्येन शौच्यं न जलप्रवेशाज्
ज्ञानेन मोक्षो न शरीरशोषात् ॥
अदत्तदानेन दरिद्रभावं
दरिद्रभावाच् च करोति पापम् ।
पापं च कृत्वा नरकं प्रयाति
नरकाद् विमुक्तः पुनर् एव पापी ॥
दारिद्रनाशनं दानं शीलं दुर्गतिनाशनम् ।
अज्ञाननाशनं प्रज्ञा भावना भवनाशनम् ॥
शुद्धेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत्क्षणं कुशलस्कन्धौ दानम् इत्य् अभिधीयते ॥
31.6.अ
लक्ष्मीर् जाज्वल्यमाना वसतु इह सदा कीर्तिर् अप्य् उत्स्फुरन्ती
निःशेषारिः क्षितीशः क्षितिम् अवतु चिरं व्याधिदुर्भिक्षमुक्ताम् ।
शीलाढ्या दक्षिणीयाः प्रवचननिचये वृद्धिम् आयान्तु नित्यम्
आचन्द्रार्कप्रकाशं जयतु भगवतः शासनं निष्प्रकम्पम् ॥
प्रशास्तु धर्मेण महीं महीपतिर्
भवन्तु रत्नत्रयपूजना जनाः ।
प्रशान्तपापाः पृथुगोकुलाः कुलाः
सदैव नन्दन्तु च सुप्रजाः प्रजाः ॥
विभाति करभाः सुरो नभसि यावद् उष्णप्रभः
प्रभाजटिलमण्डलो हरिणलाञ्छनश् चोदितः ।
स्फुरन्ति कमलालयाः स्व्भुवि यावद् अव्याहतं
सुरासुरनमस्कृतं सुगतशासनं तिष्ठतु ॥
32 ब्
अथ स्थविरस्थविरा भिक्षवः । भगवन्तं परिपृच्छन्ति । किं भगवता कर्म कृतं । यस्य कर्मणो विपाकेन भगवतो ऽभिसंबुद्धस्य पाषाणाशर्करया पादाङ्गुष्टः क्षतः । भगवान् आह । तथागतेनैव भिक्षवः कर्माणि कृतानीति विस्तरः । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनां । भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् असंख्येये ऽन्यतमस्मिन् कर्वटकविषये गृहपतिः प्रतिवसति स्म । तेन सदृशं कलत्रम् आनीतं । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रमतः परिचारयतः पत्न्य् आपन्नसत्त्वा संवृत्ता । कालान्तरेणाष्टानां वा नवानां वा मासानाम् अत्ययात् पुत्रो जातः । उन्नीतो वर्धितो महान् संवृत्तः । अथापरेण समयेन तस्य गृहपतेः पत्नी कालगता । तेनान्या पत्न्य् आनीता तस्य तया सार्धं क्रीडतो रमतः परिचारयतः पुत्रो जातः । तेन तस्य ज्येष्ठपुत्रस्य निवेशनः कृतः । तस्य क्रीडतो रमतः परिचारयतः पुत्रः प्रसूतो दुहिता च जाता । अथापरेण समयेन गृहपतिः सपत्नीकः कालगतः । स दारकः तस्यैव भ्रातुः सकाशे तिष्ठति । स गृहपतिपुत्रः पत्न्योच्यते । आर्यपुत्र तवैष दारकः । ममायं भ्राता । सा कथयति । आर्यपुत्रास्यापि गृहप्रत्यंशो दातव्यः । स कथयति । अर्धम् अस्योपार्धम् अस्माकम् । सा कथयति । आर्यपुत्र नामास्यैकस्य पुरुषस्य भूत्वोपार्धम् अस्माकं प्रभूतानाम् उपार्धं भविष्यति । स कथयति । लोकस्यैष धर्मः । सा कथयति । आर्यपुत्र यद्य् एवं प्रघातयस्वेति । स कथयति भद्रे कथं नाम स्वापतेयस्यार्थे भ्रातरं प्रघातयिष्यामि । स तया भूयो भूय उच्यते । कामान् खलु सेवमानस्य नास्ति किञ्चित् पापकर्माकरणीयम् इति । तेनाभ्युपगतं । तेन भ्रातुर् उच्यते । भ्रातः । पुष्पसंनिधानस्यार्थे ऽरण्यं गच्छाम । स तेन सार्धं गतः । तेन तत्र पर्वतकुहरे प्रक्षिप्य पाषाणेन प्रघातित इति । तत् किं मन्यध्वे भिक्षवः । यो ऽसौ गृहपतिपुत्रः । येनासौ वैमातृको भ्राता स्वापतेयकारणात् प्रघातितः । अहम् एव तेन कालेन तेन समयेन । यत् तन् मया वैमात्रिको भ्राता स्वापतेयकारणात् प्रघातितः । तस्य कर्मणो विपाकेन बहूनि वर्षकोटीनियुतशतसहस्राणि नरकेषूपपन्नः । तेनैव कर्मावशेषेणैतर्हि तथागतस्याभिसंबुद्धस्य पाषाणशर्करया पादः क्षतः ॥
33 ब्
किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन भगवतो ऽभिसंबुद्धस्य खदिरशलाकया पादः क्षतः । तथागतेनैव भिक्षवः कर्माणि कृतानीति विस्तरः । भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ निपुणतः सामुद्रयानपात्रं प्रतिपाद्य महासमुद्रम् अवतीर्णौ धनहारकौ । ताव् अनुगुणेन वायुना रत्नद्वीपम् अनुप्राप्तौ । तत्रैकेन यानपात्रया वहनं पूरितं । द्वितीयेनामात्रया । तौ प्रस्थितौ । तत्र येनामात्रया वहनं पूरितं । तस्य तद् विपन्नः । स तेन सार्थवाहेन तुलया तुलयित्वा रत्नान्य् अपनीय स सार्थवाह आलापितः । संलक्षयति । अयं संपन्नार्थो यास्यति अहं विपन्नार्थ इति । स तद्वहनं छिद्रयितुम् आरब्धः । स छिद्रयमाणः सार्थवाहेन दृष्टः । उक्तं च सार्थवाहेन मा वहनं छिद्रय । मा सर्व एवानयेन व्यसनम् आपत्स्याम इति । स निवार्यमाणो ऽपि न तिष्ठति । स तेन शक्तिप्रहारेण घातित इति । तत् किं मन्यध्वे भिक्षवः । यो ऽसौ सार्थवाहो येन शक्तिप्रहारेण प्रघातितः । अहम् एव तेन कालेन तेन समयेन यत् तन् मया शक्तिप्रहारेण प्रघातितः । तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षकोटीनियुतशतसहस्राणि नरकेषूपपन्नः । तेनैव कर्मावशेषेण तथागतस्याभिसंबुद्धस्य खदिरशलाकया वज्रपादः क्षतः ॥
34 ब्
किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन सुन्दरिकाया मानविकाया अभूतेनाभ्याख्यातः । तथागतेनैव भिक्षवः कर्माणि कृतान्य् उपचितानीति विस्तरः । यावत् फलन्ति खलु देहिनां । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि । अशीतिवर्षसहस्रायुष्कायां प्रजायां विपश्यी नाम शास्ता लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो भगवान् । विपश्यिनः सम्यक्संबुद्धस्य प्रवचनेन द्वौ भ्रातरौ प्रव्रजितौ बभूवतुर् वसिष्ठो भरद्वाजस् च । वसिष्ठेण सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं । भरद्वाजेनापि पठता स्वाध्यायता त्रीणि पिटकान्य् अधीतानि । त्रिपिटकः संवृत्तः । युक्तमुक्तप्रतिभानः । तेन गृहपतिर् अन्वावर्तितः । तेन तम् उद्दिश्य सर्वोपकरणसंपन्नविहारः कारितः । तेन तस्य भ्रातुः सम्वृत्तम् आगच्चैकध्ये वासं कल्पयामः । स तत्र गतः तेन गृहपतिना दृष्टः । अर्हद् भिक्षुः कायप्रासादिकश् चित्तप्रासादिकश् च दृष्ट्वाभिप्रसन्नः । स तेन प्रसादजातेन पूजयित्वा महार्हेण च वस्त्रेणाच्छादितः । स तेन भ्रात्रा दृष्टः । अहम् अस्य गृहपतेः सर्वत्र पूर्वंगमः । स वस्त्रेण छादयत्य् एष छादित इति तस्यान्तिके ऽवतारप्रेक्षी संवृत्तः । स तेन दृष्टः पर्यवस्थितः स संलक्षयति यद्य् अहम् अस्य दास्यामि । भूयस्या मात्रया प्रसादं प्रवेशयिष्यतीति कृत्वा स तस्यैवातिसृष्टः । तवैव भवत्व् इति । तस्य गृहपतेः प्रेष्यदारिका तस्मिन् विहार आगत्य परिकर्म करोति । सा तेनोच्यते । दारिके ऽहम् तवैतद् वस्त्रयुगम् अनुप्रयच्छामि । त्वया मम वचनं कर्तव्यं । सा कथयति । आर्य किम् मया कर्तव्यं । त्वं च तद् वस्त्रयुगं प्रावृत्य गृहपरिकर्म कुरु । यदि गृहपतिः पृच्छेत् कुतस् तवैतद् वस्त्रयुगम् इति वक्तव्यम् अमुकेनार्येण मम दत्तम् इति । यदि कथयति कस्यार्थे तवार्येण दत्तं । वक्तव्यम् आर्येणैतद् अपि प्रष्टव्यं किमर्थम् पुरुषाः स्त्रीणाम् अनुप्रयच्छन्तीति । सा तं वस्त्रं प्रावृत्य गृहपरिकर्म कर्तुम् आरब्धा । स तेन गृहपतिना वस्त्रः परिज्ञातः । सा तेनोक्ता । दारिके कुत एतद् वस्त्रयुगं । सा कथयति । अमुनार्येणैतन् मम दत्तं । दारिके किंकारणं तवार्येणैतद् वस्त्रयुगम् अनुप्रदत्तं । सा कथयति । आर्यैतद् अपि प्रष्टव्यं । किंकारणं पुरुषाः स्त्रीणाम् अनुप्रयच्छन्तीति । स तस्यान्तिके ऽप्रसादः प्रवेदयितुम् आरब्धः । असत्कारभीरवस् ते महात्मनः । सोत्थाय प्रक्रान्तः । तत् किं मन्यध्वे भिक्षवः । यो ऽसौ भरद्वाजो नाम येन तद् अर्हन्न् अभूतेनाभ्याखातः । अहम् एव तेन कालेन तेन समयेन यत् स मयार्हद् भिक्षुर् अभूतेनाभ्याख्यातः । तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि बहूनि वर्षकोटीशतानि नरकेषूपपन्नः । यावत् तेनैव कर्मावशेषेणैतर्हि तथागतः सुन्दरिकाया मानविकाया अभूतेनाभ्याख्यात इत्यादि विस्तरः ।
मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0