ग्रंथ पाठ
कठिनावदान · अध्याय 30.25
30.25.1
स्वच्छं निष्प्रतिगन्धिकं लघुतरं स्वादान्वितं शीतलं
यो निर्यातयतीह वीतरजसे संघाय हृद्यं जलम् ।
शुद्धैः कायवचोमनोभिर् असिवत् संतापहीनः सुखी
तृष्णां हन्ति न केवलं विजहते संसारतृष्णां अपि ॥
30.25.2
काश्यपस्य प्रवचने यशोमित्रेण भिक्षुना ।
द्वादशाब्दसहस्राणि पानीयं चारितं गणे ॥
तेन कर्मविपाकेन पञ्च जन्मशतान्य् असौ ।
न पिपासाकृतं दुःकं स्वप्नेष्व् अपि अनुभूतवान् ॥ 2 ॥ जल
मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0