भाषा

ENहिગુ
ग्रंथ पाठ

कठिनावदान · अध्याय 29

29.3

दत्त्वा संघस्य कठिनं सुप्रसन्नेन चेतसा ।
इतस् त्रिंशन् महाकल्पान् नाभिजानामि दुर्गतिम् ॥ 1
अष्टादशानि कल्पानि देवलोके रमाम्य् अहम् ।
चतुःषष्टिं तु वाराणि देवेन्द्रत्वं कृतं मया ॥ 2
अशीतिशतकृत्वस् तु चक्रवर्ति भवाम्य् अहम् ।
प्रादेशिकानां राज्ञां तु संख्या मम न विद्यते ॥ 3
अहो रत्नत्रये कारां कुर्वन्ति यत्र मानवाः ।
परीत्तमात्रं दत्त्वा तु लभन्ते विपुलं फलम् ॥ 4
यदि मर्त्येषु मे जन्म हित्वा दिव्यं सुखं महत् ।
मर्त्यानाम् अभिपूज्यो ऽस्मि कठिनदानस्य तत् फलम् ॥ 5
यदि देवोपपत्तिः स्यात् त्यक्त्वा मानुष्यकं सुखम् ।
देवसंघस्य पूज्यो ऽ स्मि कठिनदानस्य तत् फलम् ॥ 6
चक्रवाडम् उपादाय महीसागरमण्डलम् ।
आकांक्षमाण-म् अद्यैव दूष्यैर् आच्छादयाम्य् अहम् ॥ 7
पुनर् अपि कठिनदानस्योत्कर्षं कथयन्न् आह
पदोत्क्षेपे पदोत्क्षेपे दूष्याः प्रादुर्भवन्ति मे ।
दूष्योपरि च तिष्ठामि दूष्यं चापि वितानकम् ॥ 8
भवा उद्घाटिता मह्यं क्लेशाश् चाध्यासिता मया ।
सर्वास्रवाः परिक्षीणाः कठिनदानस्य तत् फलम् ॥ 9
प्रतिसंविदश् चत्वारो विमोक्षाश् च तथाष्टकाः ।
षड् अभिज्ञा ह्य् अनुप्राप्ताः कृतं बुद्धस्य शासनम् ॥ 10
30

मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc