भाषा

ENहिગુ
ग्रंथ पाठ

कठिनावदान · अध्याय 21

21.2

पुनः शीतलामलस्वादुसलिलसम्पूर्णम् ।

21.3

कमलकुवलयकुमुदकह्लारकोकनदादिप्रसूनोपशोभितम् ।

21.4

पुनः सारसशरारिचक्राङ्गबकबलाकाकुररक्रौञ्चादिविविधविहंगरावरमणीयम् ।

21.5

पुनर् मकरन्दपानलम्पटभ्रमरांगनागणगीतोपकूजितम् ।
21.6.ब्
सुरासुरमुनिकिन्नरयक्षराक्षसोरगाप्सरागणोपशोभितम् ।
22
अथ तत्र बुद्धो भगवांल् लौकिकं चित्तम् उत्पादयति ।
तदान्तशः कुन्तपिपीलिकादयो भगवतश् चेतसा चित्तम् आजानते । अथ नन्दोपनन्दौ नागराजाव् एवं संलक्षयतः किंकारणं भगवतेदं चित्तम् उत्पादितम् अनवतप्ते महासरसि कर्मप्लोतिकां व्याकर्तुकाम इति बुद्धाधिष्ठानेन ज्ञात्वा ताभ्याम् अनवतप्ते महासरसि मध्ये शकटचक्रप्रमाणं सहस्रदलं विलसन्मणिनालकं सुहीरकेसरम् पञ्चरत्नमयं भगवत आसनार्थं सौवर्णसरोरुहं विनिर्मितं तत्र भगवान् निषसाद भिक्षवो ऽपि भगवतो ऽभिसंमुखम् अन्यासु कमलकर्णिकासु निषण्णाः
23.अ
तेन खलु पुनः समयेनायुष्माञ् शारिपुत्रो गृध्रकूटे पर्वते संघाटीं सिवायमानस् तिष्ठति । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते स्म । गच्छ महामौद्गल्यायन प्रव्रज्यासहायम् आनय । एवम् भगवन्न् इत्य् आयुष्मान् महामौद्गल्यायनो भगवतो वचनम् प्रतिश्रुत्यानवतप्ते महासरस्य् अन्तर्हितः । गृध्रकूटे पर्वते प्रत्यस्थाद् आयुष्मतः शारिपुत्रस्य पुरस्ताद् एवं चाह । हे शारिपुत्र शास्ता त एकोनैः पञ्चभिर् अर्हच्छतैः सार्धम् अनवतप्ते महासरसि पूर्विकां कर्मप्लोतिं व्याकर्तुकामस् त्वाम् उदीक्षणपरस् तिष्ठति । आगच्छतां गच्छावः । शारिपुत्र आह । आयुष्मन् महामौद्गल्यायन संघाटीं तावत् सीव्यामि पश्चाद् आगमिष्यामि । ततो मौद्गल्यायनेन तद् वचनम् अमृष्यमाणेन र्द्ध्या पञ्चाङ्गुलयो ऽस्य निबद्धाः । तेनापि महर्द्ध्या सीव्यतैवावस्थितं । आयुष्मन् महामौद्गल्यायन यद्य् एवं संघाटीसूत्रा भवतु । मौद्गल्यायनः कथयति । आयुष्मञ् छारिपुत्र यदि न यास्यसि संघाटी तावत् सीवयितव्यः । ततः पश्चाद् यास्यसि । आयुष्मञ् छारिपुत्र साहाय्यं कल्पयामि । शारिपुत्रः कथयति । एवं कुरुष्व । अथायुष्मान् महामौद्गल्यायनः स्वर्द्ध्या पञ्चभिर् अङ्गुलिभिः सीवयितुम् आरभः । स आयुष्मता शारिपुत्रेणोक्तः । आयुष्मन् महामौद्गल्यायन यद्य् एवम् अन्यसूत्रा भवतु । स कथयति । आयुष्मञ् शारिपुत्रैवं कृत्वा यदि न यास्यसि । अहं त ऋद्धिबलेन नयिष्यामि । अथायुष्मता शारिपुत्रेण चाक्षबन्धम् अभिप्रसार्योक्तः । त्वं ह्य् आयुष्मन् महामौद्गल्यायन भगवत र्द्धिमतां मध्ये ऽग्रो निर्दिष्टः । इदं तावत् प्राग् एव मां बलेन नयिष्यसि । अथायुष्मता महामौद्गल्यायनेनाकर्षितः । अथायुष्माञ् षारिपुत्रः संलक्षयति । महर्द्धिको महानुभावः । स्थानम् एतन् निबध्यते यदाकर्षिष्यते । तदायुष्मता शारिपुत्रेण गृध्रकूटपर्वत उपनिबद्धः । आयुष्मता महामौद्गल्यायनेन चाकर्षितः । गृध्रकूटपर्वतसह । आयुष्माञ् शारिपुत्रः संलक्षयति गृध्रकूटपर्वतम् अप्य् अयम् आकर्षयिष्यति । आयुष्मता शारिपुत्रेण सुमेरौ पर्वतराजे चोपनिबद्धः । आयुष्मता महामौद्गल्यायनेन चाकर्षितः । तदा सुमेरुपर्वतराज-म् अपि कम्पितः । तदा नन्दोपनन्दौ नागराजाव् अपि संक्षुब्धाः । यदा संक्षुब्धा भवन्ति तदा भिक्षवो बुद्धं भगवन्तं परिपृच्छन्ति । किं भगवन् नन्दोपनन्दनागराजौ क्षुब्धाः । येनानवतप्तो महासरः संक्षुभितः । भगवान् आह । न भिक्षवो नन्दोपनन्दनागराजौ संक्षुभिताः । अपि च महाश्रावकयोर् अन्योन्यं महद् ऋद्धिप्रकुर्वितं । तत आयुष्माञ् शारिपुत्रः संलक्षयति । सुमेरुम् अप्य् अयं पर्वतराजम् आकर्षयिष्यतीति । तेन यस्यां पद्मकर्णिकायां भगवान् निषण्णस् तस्यां पद्मनाल उपनिबद्धः । तदा निष्कम्पो व्यवस्थितः । आयुष्मान् महामौद्गल्यायनेनायुष्माञ् शारिपुत्र उक्तः । कृतं त्वाया महद् ऋद्धिविकुर्वितं । भवत्व् आगच्छ गच्छाव । अथायुष्मता शारिपुत्रेणोक्तः । आयुष्मन् महामौद्गल्यायनैको ऽहम् अप्य् आगच्छामि यावद् आयुष्मान् महामौद्गल्यायनो न गच्छति । तदायुष्माञ् शारिपुत्रः प्रथमतरं गत्वा भगवतः पादौ शिरसाभिवन्दित्वा स्वासनपद्मकर्णिकायां निषण्णः । ततः पश्चाद् आयुष्मान् महामौद्गल्यायन आगतः स्वासने च व्यवस्थितः । स तेनोक्तः । आयुष्माञ् शारिपुत्रागतस् त्वम् । स आह । आगतो ऽहम् इति
24
ततः सर्वे भिक्षवः संशयजाता बुद्धं भगवन्तं परिपृच्छन्ति । पश्य भदन्त भगवतायुष्मान् महामौद्गल्यायनो महर्द्धिको महानुभाव ऋद्धिमताम् मध्ये ऽग्रो निर्दिष्टः । सो ऽप्य् आयुष्मात शारिपुत्रेण र्द्ध्या पराजितः । भगवान् आह । न भिक्षव एतर्ह्य् एव यथातीते ऽप्य् अध्वन्य् अनेन शिल्पेनापि पराजितः ।
25

तच् छ्रूयतां तावत् । भूतपूर्वं भिक्षवो मध्यदेशे चित्रकराचार्यो ऽभूत् । स केनचित् करणीयेन यवनविषयं गतो यन्त्रकराचार्यस्य निवेशने ऽवतीर्णस् तत्राहारादिकं कृत्वा व्यवस्थितः । तेन तस्य दारुयन्त्रपुट्टलिकां कृत्वोपस्थानपरिचारिका संप्रेषिता । सा च दारुयन्त्रपुट्टलिका तैलोद्वर्तनं हस्ते निधाय स्थापयिता । ततः सा तेनोक्ता । इहागच्छस्वेति । सा तूष्णी व्यवस्थिता । स संलक्षयति नूनं मम चोपस्थानाय परिचारिका प्रेषिता भविष्यतीति । वर्णिता । अहो विधात्रा नारीणां रत्नसूता विनिर्मिता । चक्षुषोर् मम पुण्यस्यानया पवनीकृतः । धिग् अहो तस्य जन्म जम्बुद्वीपे मनुष्यस्य यस्येदृशी युवती रूपयौवनसम्पन्ना परमरमणीया चक्षुषा वा हस्तेन वा शारीरस्पर्शेनादिकं [सिच्] न भवेद् इत्य् अनेनामृतसदृशेन माधुर्यवचनेन सम्भावितः समाहर्तुम् आरब्धवान् । प्रिये सुन्दर्य् आगच्छागच्छस्वेति । तथापि सा दारुयन्त्रपुट्टलिका न किंचिद् उक्तेत्य् अवधार्य कामोपसक्तचेतसा सत्वरम् उपगम्य । सा तेन हस्तेन गृहीत्वाकर्षिता तदा दारुसंकलिकानां पुञ्जो व्यवस्थितः । स भिन्नोपहासः कृतः । स संलक्षयति । अहम् अनेनैकाकी प्रतिभेदितः । अहम् अपि तथा करिष्यामि । यथासौ सराजिकायां पर्षन्मध्ये प्रतिभेदोपहासं गमिष्यतीति चिन्तयित्वा तेन द्वाराभिमुख आत्मोद्बद्धकण्ठकश् चित्रितः । तदनन्तरं कपाटपृष्ठे च निलीयमानो ऽवस्थितः । यस् तस्य व्युत्थानसमये ऽतिक्रान्तः । स यन्त्रकराचार्यः संलक्षयति । उत्सूरो जातः । कस्यार्थेनायं न निष्क्रामयतीति । स तत्र गतः । तेन स दृष्टः । दृष्ट्वा च संलक्षयति । किंकारणम् अनेनात्मोद्बद्ध इति । यावत् पश्यति दारुसंकलिकायाः पुञ्जं सम्लक्षयति । प्रतिभिन्नेनात्मोद्बद्धः । आचरितं चेह यवनविषये । यस्य कस्यचिन् निवेशने ऽतिथिः कालं लोकान्तरं करोति । तस्य तावत् संस्कारो यावद् राज्ञ आवेदितं भवति । तेन राज्ञ आवेदितं । देव मध्यदेशाच् चित्रकराचार्य इहागतः स च मम निवेशाने ऽवतीर्णस् तस्य मया दारुयन्त्रपुट्टलिकां कृत्वा परिचारिका प्रेषिता । सा तेन हस्तेन गृहीत्वाकर्षिता तदा दारुसंकलिकानां पुञ्जो व्यवस्थितः । तेन प्रतिभिन्नकेनात्मोद्बद्धः । तं देव प्रत्यवेक्षयतु पश्चाद् अहं संस्कारं करिष्यामि । राजाञया तत्रामात्या गताः । स तैर् दृष्टः । दृष्ट्वा कथयन्ति । कथम् अस्माकं नागदन्ताद् अवतारयितव्यः । अपरे कथयन्ति । पाशश् छेतव्यः । तेन कुठारं गृहीत्वा पाशं छेत्तुम् आरब्धं । यावच् छिन्नः स यन्त्रकराचार्यः प्रतिभिन्नको व्ययस्थितः । स कपाटान्तरकान् निर्गत्य कथयति । अहं त्वया भोः पुरुषैकाकी प्रतिभिन्नः । त्वं पुनर् मया सराजिकायां पर्षन्मध्ये प्रतिभेदित इति । तत् किं मन्यध्वे भिक्षवः । यो ऽसौ चित्रकराचार्य एष एवासौ शारिपुत्रो भिक्षुः । यो ऽसौ यन्त्रकराचार्य एष एवासौ महामौद्गल्यायनो भिक्षुः । तदाप्य् अनेनैव शिल्पेन पराजितः । एतर्ह्य् अप्य् अनेनैष पराजितः ।
26
भूयो ऽपि यथानेनैष पराजितस् तच् छ्रूयतं । भूतपूर्वम् भिक्षवः । द्वयोश् चित्रकराचार्ययोर् विवादो जातः । एकः कथयति । अहं शोभनं शिल्पं जानामि । अपरः कथयति । अहं शोभनं शिल्पं जानामीति । ततो विवादाद् अन्योन्यं राज्ञः सकाशम् उपसंक्रान्ताव् उपसंक्रम्य राज्ञः सकाशे कथयतो ऽहं शोभनं शिल्पं जानामि । अपरो ऽप्य् अहं शोभनं शिल्पं जानामीति कथयति । अथ राज्ञा द्वारकोष्ठकम् उपदर्शितं । भवन्तौ नाहं जाने यो युष्माकं शिल्पं जानीते । अपि त्व् एक एकां भित्थिं परिमार्जयतु । द्वितीयो ऽप्य् अपराम् एवं तौ मध्ये यमनिकां दत्वा चित्रयितुम् आरब्धौ । एकेन षड्भिर् मासैश् चित्रकर्म कृतं । द्वितीयेनापि षड्भिर् मासैर् भित्तिपरिकर्म कृतं । येन चित्रकर्म कृतं स राज्ञः सकाशम् उपसंक्रान्तः । उपसंक्रम्य कथयति । देव मम परिसमाप्तं चित्रकर्म । महाराजन्न् अवलोकयतां । राजामात्यसहायो निर्गतः । तद् राज्ञा दृष्टं । दृष्ट्वैवं कथयति शोभनम् इदं चित्रकर्म । द्वितीयो ऽपि कथयति देव चित्रकर्मावलोकयतु । छाया तत्र निपतिता । राजा तद् दृष्ट्वा कथयति स्वच्छतरम् इदं चित्रकर्मेति । सो ऽपि यमनिकं अपकृष्याह । नेदं चित्रकर्म । अपि तु भित्तिपरिकर्म । एवं राजा विस्मयम् आपन्नः । अमात्यान् आमन्त्रयते स्म । भवन्तो ऽयं शोभनतरः शिल्पिक इति । तत् किं मन्यध्वे भिक्षवः । येन षड्भिर् मासैर् भित्तिपरिकर्म कृतं । एष एवासौ शारिपुत्रो भिक्षुः । येन षड्भिर् मासैश् चित्रकर्म कृतं । एष एवासौ महामौद्गल्यायनो भिक्षुस् तदाप्य् एष शिल्पेन पराजित इति । एतर्ह्य् अप्य् अनेन र्द्ध्या पराजित इति ।
27 अ
भूयो ऽप्य् ऋद्ध्या पराजितः । तच् छ्रूयताम् ।
अभूतां शङ्खलिखितौ वाराणस्याम् ऋषी पुरा ।
वर्षावर्षविवादेन संघर्षो ऽभूत् तयोर् मिथः ॥
कदाचिद् अथ शङ्खेन पद्भ्यां अपृष्टो जटः क्रुधा ।
लिखितः प्राह तं मूर्धभेदः सूर्योयदे ऽस्तु ते ॥
शङ्खो ऽवदन् मद्वचसा नोदेष्यति दिवाकरः ।
इत्य् उक्ते तेन सुचिरं सान्धकारम् अभूज् जगत् ॥
कल्पितं लिखितेनास्य कृपया मृन्मयं शिरः ।
सूर्योदये ऽथ सहसा शतधा वसुधां ययौ ॥
जन्मान्तरे स शङ्खो ऽद्य मौद्गल्यायनतां गतः ।
लिखितः शारिपुत्रो ऽयं तद् विजेता तदाप्य् अभूत् ॥
एतर्ह्य् अप्य् अनेन र्द्ध्या पराजित इत्यादि विस्तरतो ज्ञेयं ।
28.ब्
यासां ध्यानसमापत्तीनां लाभी तथागतस् तासां प्रत्येकबुद्धा नामापि न जानते । यासां प्रत्येकबुद्धा लाभिनस् तासां शारिपुत्रो नामापि न जानीते । यासां लाभी शारिपुत्रस् तासां मौद्गल्यायनो नामापि न जानीते । यासां लाभी मौद्गल्यायनस् तासां तदन्ये श्रावका नामापि न जानते । अतो ऽयं महर्द्धिको महानुभावो ऽयं शारिपुत्रो मौद्गल्यायनात् किंतु बहुलविहारिणां संधाय मय र्द्धिमताम् अग्रत इति निर्दिष्टः ।
29
29.1.अ
इत्य् अनन्तरम् आह ।
स तत्र गत्वा गिरम् अभ्युदाहरेत्
पूर्वंनिवासाचरितानुलोमिकाम् ।
आख्यातु यो ऽनुस्मरतीह तत्र
शुभाशुभं कर्मसुखोदयं सः ॥
29.2.अ
अथ स्थविरस्थविरा भिक्षवस् तथागताज्ञया स्वकस्वकं कर्मप्लोतिकं व्याकुर्वन्ति । प्रथमतरम् महाप्रतिभानो नागिल आह ।
नागिलो नाम नामेन भिक्षुर् बुद्धस्य श्रावकः ।
प्रश्नं पृष्टो व्याकार्षीद् अनवतप्ते महाह्रदे सरसि ॥
ततो नागिलो नाम भिक्षुस् तथागतस्याग्रतो दशनखाञ्जलिं कृत्वा स्वकां कर्मप्लोतिकां व्यारोचयति स्म ।

मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc