कठिनावदान · अध्याय 30
सुगन्धदेहः सुरलोकगामी
महाधनो भोगनिजः सुखेशी ।
प्रवाति दिक्षु शुचिशीलगन्धो
गन्धप्रदानात् खलु मोक्षयायी ॥ गन्ध
ये धूपं प्रददन्ति मन्मथरिपोः संघाय सद्भावतस्
ते नित्यं सुखम् आप्नुवन्ति सुखिता भोगेश्वराः शीलिनः ।
न भ्रान्तस्मृतयो भवन्ति वशिनो ध्यानेषु लब्धास्पदाः
शान्तिं यान्ति मनोहराः पटुधियः पूज्याः सदेवासुरैः ॥ धूप
नेत्राभिरामः सुसमृद्धकोशो
भवत्य् असौ नीलविशालनेत्रः ।
नारीनराणाम् अभिवीक्षणीयो
यो दीपमालां प्रकरोति संघे ॥ दीप
प्रसन्नवर्णा मृदुपाणिपादा
महाबलाः शत्रुभिर् अप्रधृष्याः ।
तैलप्रदानेन भवन्ति मर्त्याः
सुरूपरूपाः सुखम् आप्नुवन्ति ॥ तैल
प्रज्ञालाभी भवति नियतं सूत्रसूचीप्रदानात्
प्रज्ञालाभाद् भवगतिभयान् मुच्यते धीनिधानः ।
प्रज्ञा राज्ञी दुरितहरणे नास्ति काचित् तयान्या
सा संपन्ना भवति सफल संपदा सर्वथैव ॥ सूत्रसूची
शुद्धस्फटिकसंकाशं द्वादशाङ्गुलिम् एव वा ।
खटिकां यो ददातिह जायते पण्डितो महान् ॥ खटिका
हारार्धरारैः कटकैर् अनेकैः
केयूरताडण्कविधैर् उपेताः ।
चरन्ति मर्त्याः सुगतस्य शिष्ये
प्रदाय चित्राणि विभूषणानि ॥ आभरण
नाग्निर् विषं क्रामति तस्य देहं
न चापि शस्त्रं न तु वज्रवर्षम् ।
ताम्रादिदानेन जिनस्य संघे
मैत्रीविहारी प्रकरोति मर्त्यः ॥ ताम्रादिभाजन
पूज्यो वन्द्यो भवति मनुजो यत्र यत्रोपपन्नः
स्वर्गावाप्तो विपुलधनवान् संमतः सत्सभासु ।
उच्चैर्दीप्ते सुमहति कुले जायते भोगशीलः
शान्तिं यायान् निरुपमगुणः संप्रदातासनस्य ॥ आसन
बलवान् स्थानसंपन्नो राजा भवति महर्द्धिकः ।
संघस्य भोजनं दत्त्वा सर्वत्र सुखम् एधते ॥ भोजन
जातो भवेद् उच्चकुले सुशीलः
सेव्यो नराणाम् अभिदर्शनीयः ।
प्रासादिको धीरसुखी सुवर्णः
श्रीमान् असौ शालिनिवेद्यदानात् ॥ निवेद्य
चमसलड्डुकपूरकपौलिकं
विविधपूपकरम्भकपर्पटम् ।
भवति भोगपरायण ईश्वरो
गणवराय प्रदाय सतक्रकम् ॥ लड्डुकादि
सुवर्णरूप्यादिमये गणाय ये
दधीन्द्रम् आज्यं मधुशर्करागुडम् ।
निधाय पात्रे प्रददन्ति ते नराः
सुधाशिनः पञ्चविदो बलान्विताः ॥ पञ्चसार
वारिणा परिपूरित्वा कुम्भं दत्त्वा गणोत्तमे ।
पञ्च कामगुणान् भुक्त्वा तृष्णां छिन्दन्ति शाश्वतीम् ॥ कुम्भ
कुण्डिकापात्रदानेन धर्मज्ञानसमन्वितः ।
धनदेन समानो ऽसौ जायते च त्रिरत्नके ॥ कुण्डिकापात्र
सर्वंददश् च भवति गृहं दत्त्वा गणोत्तमे ।
सर्वकामसमृद्धस् तु सर्वत्र सुखम् एधते ॥ गृह
इच्छाद्रुमप्रदानेन तेनैवाविकलो भवेत् ।
उत्तरकुरुमानुष्यो महाभोगी भविष्यति ॥ इच्छाद्रुम
घण्टाप्रदानस्य महानुशंसा
सुरूपको नित्यप्रहृष्टचेताः ।
मनोज्ञवाणीश् च सुरासुराणां
गन्धर्वराज्ञा सदृशस् तु जायते ॥ घण्टा
ये संघे प्रतिपादयन्ति मुदितास् तृष्णाच्छिदं पानकं
हृद्यं स्वादुरसान्वितं पटुरसं गन्धाभिरामं प्रियम् ।
छित्त्वा ते भवरागसंभवभवां तृष्णालतां प्रज्ञया
पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम् ॥ पानक
अपरिमितधनानां वाजिनागैर् युतानां
सुबहुपरिजनानां भूभुजां मन्दिराणाम् ।
अभिजलनिधिभूमिं प्राप्य राजा नराणाम्
परमरुचिरकान्तिर् जायते भूप्रदानात् ॥ भूमि
विचित्रधान्यादिफलादिकं च
श्रद्धान्वितो यः प्रदाति सम्घे ।
इष्टं फलं तस्य फलन्ति नित्यं
सर्वं फलं पच्यति बोधिमार्गे ॥ व्रीहि
31
मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0