भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.9

12.9.1

ततो ऽत्र पुन आनेतुं तं वेतालम् अगान् नृपः ।
स त्रिविक्रमसेनस् तच् छिंशपापादपान्तिकम् ॥

12.9.2

प्राप्तो ऽत्र वीक्षते यावच् चितालोकवशान् निशि ।
तावद् ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥

12.9.3

अथ तं मृतदेहस्थं वेतालं स महीपतिः ।
आरोप्य स्कन्धम् आनेतुं तूष्णीं प्रववृते जवात् ॥

12.9.4

ततः स्कन्धात् स वेतालो भूयस् तं नृपम् अब्रवीत् ।
राजन् महत्य् अनुचिते क्लेशे ऽस्मिन् पतितो भवान् ॥

12.9.5

अतस् तव विनोदाय खतयामि खतां शृणु ।
अस्त्य् अग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥

12.9.6

अग्निस्वामीति तत्रासीद् ब्राह्मणो वेदपारगः ।
तस्यातिरूपा मन्दारवतीत्य् अजनि कन्यका ॥

12.9.7

यां निःमाय नवानर्घलावण्यां नियतं विधिः ।
स्वर्गस्त्रीपूर्वनिर्माणं निजम् एवाजुगुप्सत ॥

12.9.8

तस्यां च यौवनस्थायाम् आययुः कान्यकुब्जतः ।
समसर्वगुणास् तत्र त्रयो ब्राह्मणपुत्रकाः ॥

12.9.9

तेषां चात्मार्थम् एकैकस् तत्पितुस् ताम् अयाचत ।
अनिच्छन् दानम् अन्यस्मै तस्याः प्रानव्ययाद् अपि ॥

12.9.10

तत्पिता स तु तन्मध्यान् नैकस्मा अपि तां ददौ ।
भीतो ऽन्ययोर् वधात् तेन तस्थौ कन्यैव सा ततः ॥

12.9.11

ते च त्रयो ऽपि तद्वक्त्रचन्द्रैकासक्त दृष्ठयः ।
चकोरव्रतम् आलम्ब्य तत्रैवासन् दिवानिशम् ॥

12.9.12

अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा ।
जगाम मन्दारवती कुमारी किल पञ्चताम् ॥

12.9.13

ततस् तां विप्रपुत्रास् ते परासुं शोकविक्लवाः ।
कृतप्रसाधनां नीत्वा श्मशानं चक्रुर् अग्निसात् ॥

12.9.14

एकश् च तेषां तत्रैव विधाय मठिकां ततः ।
कृततद्भस्मशय्यः सन्न् आस्तायाचितभैक्षभुक् ॥

12.9.15

द्वितीयो ऽस्थीन्य् उपादाय तस्या भागीरथीं ययौ ।
तृतीयस् तापसो भूत्वा भ्रान्तुं देशान्तराण्य् अगात् ॥

12.9.16

स भ्राम्यंस् तापसः प्राप ग्रामं वक्रोलकाभिधम् ।
तत्रातिथिः सन् कस्यापि विप्रस्य प्राविशद् गृहम् ॥

12.9.17

तत्पूजितः स यावच् च भोक्तुं तत्र प्रचक्रमे ।
तावद् एकः शिशुस् तत्र प्रवृत्तो ऽभूत् प्ररोदितुम् ॥

12.9.18

स सान्त्व्यमानो ऽपि यदा न व्यरम्सीत् तदा क्रुधा ।
बाहव् आदाय गृहिणी ज्वलत्य् अग्नौ तम् अक्षिपत् ॥

12.9.19

क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावम् अवाप्तवान् ।
तद् दृष्ट्वा जातरोमाञ्चः सो ऽब्रवीत् तापसो ऽतिथिः ॥

12.9.20

हा धिक्कष्टं प्रविष्टो ऽस्मि ब्रह्मराक्षसवेश्मनि ।
तन्मूर्तं किल्बिषम् इदं न भोक्ष्ये ऽन्नम् इहाधुना ॥

12.9.21

एवं वदन्तं तं सो ऽत्र गृहस्थः प्राह पश्य मे ।
शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥

12.9.22

इत्य् उक्त्वादाय तन् मन्त्रपुस्तिकाम् अनुवाच्य च ।
तत्र भस्मनि चिक्षेप स धूलिम् अभिमन्त्रिताम् ॥

12.9.23

तेनोदतिष्ठत् तद्रूप एव जीवन् स बालकः ।
ततः स निर्वृतस् तत्र भुक्तवान् विप्रतापसः ॥

12.9.24

गृहस्थो ऽपि स तां नागदन्ते ऽवस्थाप्य पुस्तिकाम् ।
भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥

12.9.25

सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः ।
स प्रियाजीवितार्थी तां पुस्तिकां तापसो ऽग्रहीत् ॥

12.9.26

गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् ।
क्रमाच् छ्मशानं तत् प्राप यत्र दग्धास्य सा प्रिया ॥

12.9.27

ददर्श चात्र तत्कालं तं द्वितीयम् उपागतम् ।
यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतो ऽभवत् ॥

12.9.28

ततस् तं च तम् आद्यं च तस्या भस्मनि शायिनम् ।
निबद्धमठिकं तत्र द्वाव् अप्य् एतौ जगाद सः ॥

12.9.29

मठिकापास्यताम् एषा यावद् उत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्य् अहम् ॥

12.9.30

इति तौ प्रेर्य निर्बन्धान् निर्लोठ्य मठिकां च सः ।
उद्घाट्य तापसो विप्रः पुस्तिकां ताम् अवाचयत् ॥

12.9.31

अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्य् अवाक्षिपत् ।
उदतिष्ठच् च जीवन्ती सा मन्दारवती ततः ॥

12.9.32

वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेनेव निःमितम् ॥

12.9.33

तादृशीं तां पुनर् जातां ते दृष्ट्वैव स्मरातुराः ।
प्राप्तुकामास् त्रयो ऽप्य् एवम् अन्योऽन्यं कलहं व्यधुः ॥

12.9.34

एको ऽब्रवीद् इयं भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या ममेयम् इति चापरः ॥

12.9.35

रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् ।
तद् एषा मम भार्येति तृतीयो ऽत्र जगाद सः ॥

12.9.36

विवादनिर्णये तेषां त्वं तावन् मे महीपते ।
निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥

12.9.37

विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि ।
इति वेतालतः श्रुत्वा तं स राजैवम् अभ्यधात् ॥

12.9.38

यः क्लेशम् अनुभूयापि मन्त्रेणैताम् अजीवयत् ।
पिता स तस्यास् तत्कार्यकरणान् न पुनः पतीः ॥

12.9.39

यश् चास्तीनि निनायास्य गङ्गायां स सुतो मतः ।
यस् तु तद् भस्मशय्यं ताम् आश्लिष्यासीत् तपश् चरन् ॥

12.9.40

श्मशान एव तत् प्रीत्या भर्ता तस्याः स उच्यते ।
कृतं तद् अनुरूपम् इह तेन गाड्ःआनुरागिण ॥

12.9.41

एवं नृपात् त्रिविक्रमसेनाच् छृउत्वैव मुक्तमौनात् सः ।
तस्य स्कन्धाद् अगमद् वेतालो ऽतर्कितः स्वपदम् ॥

12.9.42

राजाथ भिक्ष्वर्थसमुद्यतस् तं प्राप्तुं स भूयो ऽपि मनो बबन्ध ।
प्राणात्यये ऽपि प्रतिपन्नम् अर्थं तिष्ठन्त्य् अनिर्वाह्य न धीरसत्त्वाः ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc