भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.8

12.8.21

प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे ॥

12.8.22

तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ।
प्राक् त्रिविक्रमसेनाख्यः ख्यातकीर्तिर् अभून् नृपः ॥

12.8.23

तस्य प्रत्यहम् आस्थानगतस्योपेत्य भूपतेः ।
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलम् उपानयत् ॥

12.8.24

सो ऽपि राजा तद् आदाय फलम् आसन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥

12.8.25

इत्थं गतेषु वर्षेषु दशस्व् अत्र किलैकदा ।
दत्त्वा राज्ञे फलं तस्मै भिक्षाव् आस्थानतो गते ॥

12.8.26

स राजा तत् फलं प्रादात् प्रविष्टायात्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥

12.8.27

स मर्कटस् तद् अश्नाति यावत् तावत् फलात् ततः ।
विभिन्नमध्यान् निरगाद् अनर्घं रत्नम् उत्तमम् ॥

12.8.28

तद् दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥

12.8.29

हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तच् छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥

12.8.30

क्षिप्तानि तान्य् अनुद्घाट्य मया गञ्जे गवाक्षतः ।
यद्य् आदिशसि तद् देव तम् उद्घाट्य गवेषये ॥

12.8.31

इति ऊचिवान् अनुमतो रज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत् पुनः ॥

12.8.32

शीर्णानि नात्र पश्यामि कोषे तानि फलान्य् अहम् ।
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥

12.8.33

तच् छ्रुत्वा तान् मनीन् दत्त्वा तुष्टो ऽस्मै कोषरक्षिणे ।
राजान्येद्युर् अपृच्छत् स भिक्षुं तं प्राग्वद् आगतम् ॥

12.8.34

भिक्षो धनव्ययेनैवं सेवसे मां किम् अन्वहम् ।
नेदानीं ते ग्रहीष्यामि फलं यावन् न वक्ष्यसि ॥

12.8.35

इत्य् उक्तवन्तं राजानं भिक्षुस् तं विजने ऽब्रवीत् ।
वीरसाचिव्यसापेक्षं मन्त्रसाधनम् अस्ति मे ॥

12.8.36

तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये ।
तच् छ्रुत्वा प्रतिपेदे तत् तथेत्य् अस्य स भूपतिः ॥

12.8.37

ततः स श्रमणस् तुष्टो नृपं पुन उवाच तम् ।
तर्हि कृष्णचतुर्दश्याम् आगामिन्यां निशागमे ॥

12.8.38

इतो महाश्मशानान्तःवटस्याधः स्थितस्य मे ।
आगन्तव्यं त्वया देव प्रतिपालयतो ऽन्तिकम् ॥

12.8.39

बाढम् एवं करिष्यामीत्य् उक्ते तेन महीभुजा ।
स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥

12.8.40

अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनां प्रतिपन्नां तां भिक्षोस् तस्य नृपः स्मरन् ॥

12.8.41

प्रदोषे नीलवसनस् तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिर् अलक्षितः ॥

12.8.42

ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलोग्रनयनज्वालादारुणदर्शनम् ॥

12.8.43

असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥

12.8.44

भैरवस्यापरं रूपम् इव गम्भीरभीषणम् ॥

12.8.45

स्फूर्जन् महाशिवारावं श्मशानं तद् अविह्वलः ।
विचित्य चात्र तं प्राप्य भिक्षुं वटतरोर् अधः ।
कुर्वाणं मण्डलन्यासम् उपसृत्य जगाद सः ॥

12.8.46

एषो ऽहम् आगतो भिक्षो ब्रूहि किं करवाणि ते ।
तच् छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुर् उवाच तम् ॥

12.8.47

राजन् कृतः प्रसादश् चेत् तद् इतो दक्षिणामुखम् ।
गत्वा विदूरम् एकाकी विद्यते शिंशपातरुः ॥

12.8.48

तस्मिन्न् उल्लम्बितमृतः को ऽप्य् एकः पुरुषः स्थितः ।
तम् इहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥

12.8.49

तच् छृउत्वैव तथेत्य् उक्त्वा स राजा सत्यसंगरः ।
दक्षिणां दिशम् आलम्ब्य प्रवीरः प्रययौ ततः ॥

12.8.50

आत्तदीप्तचितालातलक्षितेन पथात्र सः ।
गत्वा तमसि तं प्राप कथंचिच् छिंशपातरुम् ॥

12.8.51

तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।
सो ऽपश्यल् लम्बमानं तं भूतस्येव शवं तरोः ॥

12.8.52

आरुह्य चात्र भूमौ तं छिन्न रज्जुम् अपातयत् ।
पतितश् चात्र सो ऽकस्माच् चक्रन्द व्यथितो यथा ॥

12.8.53

ततो ऽवरुह्य कृपया जीवाशङ्की स तस्य यत् ।
राजाङ्गं प्रामृशत् तेन सो ऽट्टहासं व्यधाच् छवः ॥

12.8.54

ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा ।
किं हसस्य् एहि गच्छाव इति यावद् अकम्पितः ॥

12.8.55

वक्ति तावन् न भूमौ सवेतालं शवम् ऐक्षत ।
ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ॥

12.8.56

ततो ऽधिरुह्य भूयो ऽपि तम् अवातारयत् ततः ।
वज्राद् अपि हि वीराणां चित्तरत्नम् अखण्डितम् ॥

12.8.57

आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् ।
स त्रिविक्रमसेनो ऽथ राजा गन्तुं प्रचक्रमे ॥

12.8.58

यान्तं च तं शवान्तःस्थो वेतालो ऽंसस्थितो ऽब्रवीत् ।
राजन्न् अध्वविनोदाय कथाम् आख्यामि ते शृणु ॥

12.8.59

अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थलीव कैलासगिरेर् या पुण्यजनसेविता ॥

12.8.60

भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी ।
हारयष्टिर् इवाभाति यस्याः स्वर्गतरङ्गिणी ॥

12.8.61

प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्यां प्रतापमुकुटो नाम राजाभवत् पुरा ॥

12.8.62

तस्याभूद् वज्रमुकुटस् तनयो रूपशौर्ययोः ।
कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥

12.8.63

राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।
आसीद् बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥

12.8.64

तेन सख्या सह क्रीडन् स कदाचिन् नृपात्मजः ।
जगाम दूरम् अध्वानं मृगयाति प्रसङ्गतः ॥

12.8.65

शौर्यशृईचामरानीव सिंहानां मस्तकानि सः ।
छिन्दच् छरैः सटालानि विवेशैकं महावनम् ॥

12.8.66

तत्रास्थाने स्मरस्येव पठत् कोकिलबन्दिनि ।
दत्तोपकारे तरुभिर् मञ्जरीचलचामरैः ॥

12.8.67

सो ऽन्वितो मन्त्रिपुत्रेण तेनापश्यत् सरःवरम् ।
विचित्रकमलोत्पत्तिधामाम्बुधिम् इवापरम् ॥

12.8.68

तस्मिंस् तदैव सरसि स्नानार्थं काचिद् आगता ।
तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥

12.8.69

पूरयन्तीव लावण्यनिःझरेण सरःवरम् ।
दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥

12.8.70

प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना ।
सा जहार मनस् तस्य राजपुत्रस्य तत्क्षणम् ॥

12.8.71

सो ऽप्य् अहार्षीत् तथा तस्या युवा दृष्ट्वा विलोचने ।
यथा नैक्षत सा कन्या लज्जां स्वाम् अप्य् अलंकृतिम् ॥

12.8.72

यूनि पश्यति तस्मिन् सा केयं स्यादिति सानुगे ।
संज्ञां स्वदेशाद्याख्यातुं विलासछद्मनाकरोत् ॥

12.8.73

करोति स्मौत्पलं कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरं च दन्तरचनां चकारादाय च व्यधात् ॥

12.8.74

पद्मं शिरसि साकूतं हृदये चादधे करम् ।
राजपुत्रश् च तस्यास् तां संज्ञां न ज्ञातवांस् तदा ॥

12.8.75

मन्त्रिपुत्रस् तु बुबुधे स सखा तस्य बुद्धिमान् ।
क्षणाच् च सा ययौ कन्या नीयमानानुगैस् ततः ॥

12.8.76

प्राप्य च स्वगृहं तस्थौ पर्यङ्गे ऽङ्गं निधाय सा ।
चित्तं तु निजसंज्ञार्थम् आस्थात् तस्मिन् नृपात्मजे ॥

12.8.77

सो ऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।
गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ॥

12.8.78

सख्या च मन्त्रिपुत्रेण तेन पृष्टस् तदा रहः ।
शंसता ताम् अदुष्प्रापां त्यक्तधैर्यो जगाद सः ॥

12.8.79

यस्या न नाम न ग्रामो नान्वयो वावबुध्यते ।
सा कथं प्राप्यते तन् माम् आश्वासयसि किं मृषा ॥

12.8.80

इत्य् उक्तो राजपुत्रेण मन्त्रिपुत्रस् तम् अभ्यधात् ।
किं न दृष्टं त्वया तद् यत् संज्ञया सूचितं तया ॥

12.8.81

न्यस्तं यद् उत्पलं कर्णे तेनैतत् ते तयोदितम् ।
कर्णोत्पलस्य राष्ट्रे ऽहं निवसामि महीभृतः ॥

12.8.82

कृता यद् दन्तरचना तेनैतत् कथितं तया ।
तत्र जानीहि मां दन्तघाटकस्य सुताम् इति ॥

12.8.83

पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।
त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥

12.8.84

कलिङ्गदेशे ह्य् अस्त्य् अत्र ख्यातः कर्णोत्पलो नृपः ।
तस्य प्रसादवित्तो ऽस्ति महान् यो दन्तघटकः ॥

12.8.85

सङ्ग्रामवर्धनाख्यस्य तस्याप्य् अस्ति जगत्त्रये ।
रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ॥

12.8.86

एतच् च लोकतो देव यथावद् विदितं मम ।
अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥

12.8.87

इत्य् उक्तो मन्त्रिपुत्रेन तेन राजसुतो ऽथ सः ।
तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥

12.8.88

संमन्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् ।
प्रियार्थी मृगयाव्याजात् पुनस् ताम् अगमद् दिशम् ॥

12.8.89

अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥

12.8.90

तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥

12.8.91

तददूरे च वासार्थम् एकस्य वृद्धयोषितः ।
गृहं प्राविशतां मन्त्रिपुत्रराजसुताव् उभौ ॥

12.8.92

दत्ताम्बुयवसौ वाहौ गुप्ते ऽवस्थाप्य चात्र सः ।
राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥

12.8.93

कच्चिद् वेत्स्य् अम्ब सङ्ग्रामवर्धनं दन्तघाटकम् ।
तच् छृउत्वा सा जरद्योषित् सश्रद्धा तम् अभाषत ॥

12.8.94

वेद्म्य् एव धात्री तस्यास्मि स्थापिता तेन चाधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्य् अहम् ॥

12.8.95

किं त्व् अहं न सदा तत्र गच्छाम्य् उपहताम्बरा ।
कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥

12.8.96

एवम् उक्तवतीं प्रीतः स्वोत्तरीयादिदानतः ।
संतोष्य सो ऽत्र वृद्धां तां मन्त्रिपुत्रो ऽब्रवीत् पुनः ॥

12.8.97

माता त्वं तद् वदामस् ते गुप्तं यत् तत् कुरुष्व नः ।
दन्तघाटसुताम् एतां गत्वा पद्मावतीं वद ॥

12.8.98

सो ऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया ।
तेन चेह तद् आख्यातुं प्रेषिता प्रणयाद् अहम् ॥

12.8.99

तच् छृउत्वा सा तथेत्य् उक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वम् आजगाम क्षणान्तरे ॥

12.8.100

पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥

12.8.101

तया श्रुत्वा च निर्भर्त्स्य पाणिभ्याम् अहम् आहता ।
द्वाभ्यां कर्पूरलिप्ताभ्याम् उभयोर् गण्डयोर् मुखे ॥

12.8.102

ततः परिभवोद्विग्ना रुदत्य् अहम् इहागता ।
एतास् तद् अङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ॥

12.8.103

एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् ।
जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥

12.8.104

मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत् तया ।
कर्पूरशुभ्रा वक्त्रे ऽस्याः स्वाङ्गुल्यो दश पातिताः ॥

12.8.105

तद् एतद् उक्तं पक्षे ऽस्मिञ् शुक्ले चन्द्रवतीर् इमाः ।
रात्रीर् दश प्रतीक्षध्वं संगमानुचिता इति ॥

12.8.106

इत्य् आश्वास्य स तं राजसुतं मन्त्रिसुतस् ततः ।
विक्रीय गुप्तं हस्तस्थं काञ्चनं किम्चिद् आपणे ॥

12.8.107

वृद्धया साधयामास महार्हं भोजनं तया ।
ततस् तौ बुभुजाते द्वौ तत् तया सह वृद्धया ॥

12.8.108

एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् ।
पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥

12.8.109

सापि मृष्टान्नपानादिलुब्धा तद् अनुरोधतः ।
गत्वा वासगृहं तस्या भूयो ऽभ्येत्य जगाद तौ ॥

12.8.110

इतो गत्वाद्य तूष्णीम् अप्य् अहं तत्र स्थिता तया ।
युष्मत्कथापराधं तम् उद्गिरन्त्या स्वयं पुनः ॥

12.8.111

सा लक्तकाभिस् तिसृभिः कराङ्गुलिभिर् आहता ।
उरस्य् अस्मिन्न् अथैषाहम् इहायाता तद् अन्तिकात् ॥

12.8.112

तच् छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतो ऽब्रवीत् ।
मा कार्षीर् अन्यथा शङ्काम् अस्या हि हृदये तया ॥

12.8.113

सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।
रजस्वला निशास् तिस्रः स्थिताहम् इति सूचितम् ॥

12.8.114

एवम् उक्त्वा नृपसुतं मन्त्रिपुत्रस् त्र्यहे गते ।
पद्मावत्यै पुनस् तस्यै वृद्धां तां प्रजिघाय सः ॥

12.8.115

सा गता मन्दिरं तस्यास् तया संमान्य भोजिता ।
प्रीत्या पानादिलीलाभिर् दिनं चात्र विनोदिता ॥

12.8.116

सायं च यावत् सा वृद्धा गृहम् आगन्तुम् इच्छति ।
उदभूद् भयकृत् तावत् तत्र कोलाहलो बहिः ॥

12.8.117

हा हा भ्रष्टो ऽयम् आलानाज् जनान् मथ्नन् प्रधावति ।
मत्तहस्तीति लोकस्य तत्राक्रन्दो ऽथ शुश्रुवे ॥

12.8.118

ततः पद्मावती सा तां वृद्धाम् एवम् अभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ॥

12.8.119

तत् पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् ।
बृहद्गवाक्षेणानेन त्वाम् अत्र प्रक्षिपामहे ॥

12.8.120

गृहोद्याने ततो वृक्षम् आरुह्यामुं विलङ्घ्य च ।
प्राकारम् अवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥

12.8.121

इत्य् उक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धां चेटीभिर् उद्याने रज्जुपीठिकया ततः ॥

12.8.122

साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् ।
यथावद् राजपुत्राय तस्मै मन्त्रिसुताय च ॥

12.8.123

ततः स मन्त्रिपुत्रस् तं राजपुत्रम् अभाषत ।
सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस् तया ॥

12.8.124

तद् गच्छाद्यैव तत्र त्वं प्रदोषे ऽस्मिन् नृपागते ।
एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥

12.8.125

इत्य् उक्तस् तेन तद्युक्तो राजपुत्रो ययौ स तत् ।
उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ॥

12.8.126

तत्रापश्यच् च रज्जुं तां लम्बमानां सपीठिकाम् ।
मार्गोन्मुखाभिश् चेटीभिर् उपरिष्टाद् अधिष्ठिताम् ॥

12.8.127

आरूढस् तां च दृष्ट्वैव दासीभिस् ताभिर् आशु सः ।
रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥

12.8.128

तस्मिन् प्रविष्टे स ययौ मन्त्रिपुत्रः स्वम् आस्पदम् ।
राजपुत्रस् तु तां पद्मावतीं तत्र ददर्श सः ॥

12.8.129

पूर्णामृताम्शुवदनां प्रसरत्कान्तिचन्द्रकाम् ।
कृष्णपक्षभयाद् गुप्तस्थितां राकानिशाम् इव ॥

12.8.130

सापि दृष्ट्वा तम् उत्थाय चिरौत्सुक्योचितैस् ततः ।
कण्ठग्रहादिभिस् तैस् तैर् उपचारैर् अमानयत् ॥

12.8.131

ततस् तया स गान्धर्वविधिनोदूढया सह ।
गुप्तं राजसुतस् तस्थौ पूर्णेच्छस् तत्र कान्तया ॥

12.8.132

स्थित्वा चाहानि कतिचिद् रात्रौ ताम् अवदत् प्रियाम् ।
सखा मम सहायातो मन्त्रिपुत्र इति स्थितः ॥

12.8.133

स चात्र तिष्ठत्य् एकाकी त्वज्ज्येष्ठतरिकागृहे ।
गत्वा संभाव्य तं तन्वि पुन एष्यामि ते ऽन्तिकम् ॥

12.8.134

तच् छृउत्वा तम् अवोचत् सा धूर्ता पद्मावती प्रियम् ।
हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास् त्वया ॥

12.8.135

ज्ञाता किं किम् उवा तेन सख्या मन्त्रिसुतेन ते ।
एवम् उक्तवतीम् एतां राजपुत्रो जगाद सः ॥

12.8.136

न ज्ञातं तन् मया किम्चिज् ज्ञात्वा सर्वं च तेन मे ।
आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥

12.8.137

एतच् छृउत्वा विचिन्त्यैव भामिनी सा जगाद तम् ।
तर्ह्य् अयुक्तं कृतं यन् मे चिरात् स कथितस् त्वया ॥

12.8.138

स मे भ्राता सखा यस् ते तस्य च प्रथमं मया ।
ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥

12.8.139

इत्य् उक्तवत्यानुमतस् तया पूर्वपथेन सः ।
रजापुत्रो ऽन्तिकं तस्य सख्युर् आगात् ततो निशि ॥

12.8.140

शशंस च कथामध्ये तत् तस्मै यत् तदाश्रयम् ।
संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥

12.8.141

मन्त्रिपुत्रस् तु सो ऽयुक्तम् इति न श्रद्दधे ऽस्य तत् ।
तावच् च सा तयोस् तत्र विभाताभूद् विभावरी ॥

12.8.142

अथैतयोर् विधौ सांध्ये निवृत्ते कुर्वतोः कथाः ॥

12.8.143

आगात् पक्वान्नताम्बूलहस्ता पद्मावतीसखी ।
सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका ।
निषेद्धुं रजापुत्रस्य भोजनं तत्र युक्तितः ॥

12.8.144

कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् ।
प्रतीक्षमाणाम् आवेद्य क्षणाद् गुप्तं ततो ययौ ॥

12.8.145

ततस् तं मन्त्रिपुत्रः स राजपुत्रम् अभाषत ।
कौतुकं पश्य देवैकं दर्शयाम्य् अधुना तव ॥

12.8.146

इत्य् उक्त्वा भक्ष्यम् एकं स पक्वान्नं दत्तवांस् ततः ।
सारमेयाय स च तत् खादित्वैव व्यपद्यत ॥

12.8.147

तद् दृष्ट्वा किम् इदं चित्रम् इति राजसुतो ऽत्र सः ।
पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत ॥

12.8.148

संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।
तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥

12.8.149

नास्मिन् सति मदेकाग्रो राजपुत्रो भवेद् अयम् ।
एतद्वशश् च मुक्त्वा मां नगरीं स्वां व्रजेद् इति ॥

12.8.150

तन् मुञ्च मन्युम् एतस्यां बन्धुत्यागान् महात्मनः ।
कुर्यास् त्वं हरणे युक्तिं वक्ष्याम्य् आलोच्य याम् अहम् ॥

12.8.151

इत्य् उक्तवन्तं तं मन्त्रिसुतो राजसुतो ऽत्र सः ।
सत्यं बुद्धिशरीरस् त्वम् इति यावत् प्रशंसति ॥

12.8.152

अशङ्कितं बहिस् तावद् दुःखाकुलजनारवः ।
हा धिग् राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥

12.8.153

तदाकर्णनहृष्टो ऽथ मन्त्रिपुत्रो नृपात्मजम् ।
जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥

12.8.154

तत्र तां पाययेस् तावद् यावत् पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ॥

12.8.155

ततस् तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।
दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ॥

12.8.156

आगच्छेस् त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परं यथा भद्रं भवेज् ज्ञास्याम्य् अहं तथा ॥

12.8.157

इत्य् उक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकम् ।
मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ॥

12.8.158

राजपुत्रः स हस्ते तत् कृत्वा कुटिलकर्कशम् ।
कालायस दृढं चित्तम् इव कान्तावयस्ययोः ॥

12.8.159

तथेति पूर्ववद् रात्राव् अगात् पद्मावतीगृहम् ।
अविचार्यं प्रभूणां हि शुचेर् वाक्यं स्वमन्त्रिणः ॥

12.8.160

तत्र तां मद्यनिःचेष्टां शूलेन जघने ऽङ्किताम् ।
हृतालंकरणां कृत्वा तस्यागात् सख्युर् अन्तिकम् ॥

12.8.161

दर्शिताभरणस् तस्मै शशंस च यथाकृतम् ।
ततः स मन्त्रिपुत्रो ऽपि सिद्धं मेने मनीषितम् ॥

12.8.162

प्रातर् गत्वा श्मशानं च सो ऽभूत् तापसवेषभृत् ।
स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥

12.8.163

अब्रवीत् तं च गच्छैकम् इतो ऽलंकरणाद् इमाम् ।
मुक्तावलीं समादाय त्वं विक्रेतुम् इवापणे ॥

12.8.164

बहुमूल्यं वदेश् चास्या येनैतां नैव कश् चने ।
गृह्णीयाद् भ्राम्यमाणां च सर्वः को ऽपि विलोकयेत् ॥

12.8.165

गुरुणा मम विक्रेतुम् इयं दत्तेत्य् अनाकुलः ।
ब्रूयाश् च यदि गृह्णीयुर् अत्र त्वां पुररक्षिणः ॥

12.8.166

इति स प्रेषितस् तेन गत्वा राजसुतस् तदा ।
अतिष्ठद् आपणे भ्राम्यन् व्यक्तं मुक्तावलीं दधत् ॥

12.8.167

तथाभूतश् च जगृहे स दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेश् चौरेगवेषिभिः ॥

12.8.168

निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् ।
स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ॥

12.8.169

कुतो मुक्तावलीयं ते भगवन्न् इह हारिता ।
दन्तघाटककन्याया हृतं ह्य् आभरणं निशि ॥

12.8.170

तच् छृउत्वा राजपुत्रस् तं सो ऽवादीत् तापसाकृतिः ।
गुरुणा मम दत्तेयम् एत्यासौ पृच्छ्यताम् इति ॥

12.8.171

ततश् चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।
मुक्तावलीयं भगवन् कुतस् ते शिष्यहस्तगा ॥

12.8.172

शृउत्वैतद् विजनं कृत्वा स धूर्तस् तम् अभाषत ।
अहं तपस्वी भ्राम्यामि सदारण्येष्व् इतस् ततः ॥

12.8.173

सो ऽहं दैवाद् इह प्राप्तः श्मशाने ऽत्र स्थितो निशि ।
अपश्यं योगिनीचक्रं समागतम् इतस् ततः ॥

12.8.174

तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।
उद्घाटितहृदम्भोजो भैरवाय निवेदितः ॥

12.8.175

पानमत्ता च सा हर्तुं जपतो मे ऽक्षमालिकाम् ।
प्रावर्तत महामाया विकारान् कुर्वती मुखे ॥

12.8.176

अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥

12.8.177

हृता मुक्तावली चेयं तस्याः कण्ठान् मया तदा ।
सैषाद्य तापसानर्हा विक्रेया मम वर्तते ॥

12.8.178

एतच् छृउत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।
भूपो ऽप्य् आकर्ण्य तत् तां च बुद्ध्वा तन्मौक्तिकावलीम् ॥

12.8.179

प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यम् एव ताम् ॥

12.8.180

ग्रस्तः सुतो मे डकिन्या तयेत्य् उत्पन्ननिश्चयः ।
स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ॥

12.8.181

पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा ।
पितृभ्यां शोच्यमानायाः पुरान् निःवासनं व्यधात् ॥

12.8.182

निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् ।
उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ॥

12.8.183

दिनान्ते तां च शोचन्तीम् अश्वारूढाव् उपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ॥

12.8.184

आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश् च ताम् ।
तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ॥

12.8.185

दन्तघाटस् त्व् अरण्ये तां क्रव्यादैर् भक्षितां सुताम् ।
मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ॥

12.8.186

इत्य् आख्याय स भूयस् तं वेतालो नृपम् अब्रवीत् ।
तन् मे ऽत्र संशयं छिन्द्धि दंपत्योर् एतयोर् वधात् ॥

12.8.187

मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।
पद्मावत्याः किम् अथ वा त्वं हि बुद्धिमतां वरः ॥

12.8.188

जानानश् च न चेद् राजन् मम तत्त्वं वदिष्यसि ।
तद् एष शतधा मूर्धा निःचितं ते स्फुटिष्यति ॥

12.8.189

इत्य् उक्तवन्तं वेतालं विजानञ् शापभीतितः ।
स त्रिविक्रमसेनस् तम् एवं प्रत्यब्रवीन् नृपः ॥

12.8.190

योगेश्वर किम् अज्ञेयम् एतन् नैषां हि पातकम् ।
त्रयाणाम् अपि राज्ञस् तु पापं कर्णोत्पलस्य तत् ॥

12.8.191

वेतालो ऽप्य् आह राज्ञः किं ते हि तत्कारिणस् त्रयः ।
काकाः किम् अपराध्यन्ति हंसैर् जग्धेषु शालिषु ॥

12.8.192

राजा ततो ऽब्रवीच् चैनं न दुष्यन्ति त्रयो ऽपि ते ।
मन्त्रिसूनोर् हि तत् तावत् प्रभुकार्यम् अपातकम् ॥

12.8.193

पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
संतप्ताव् अविचारार्हाव् अदोषौ स्वार्थम् उद्यतौ ॥

12.8.194

कर्णोत्पलस् तु राजा स नीतिशास्त्रेष्व् अशिक्षितः ।
चरैः प्रजास्व् अनन्विष्यंस् तत्त्वशुद्धिं निजास्व् अपि ॥

12.8.195

अजानन् धूर्तचरितानीङ्गिताद्यविचक्षणः ।
तथा तन् निःविचारं यच् चक्रे तेन स पापभाक् ॥

12.8.196

इत्य् आकर्ण्य विमुक्तमौनम् उदिते सम्यङ् नृपेणोत्तरे स्कन्धात् तस्य स दार्ढ्यम् आकलयितुं मायाबलात् तत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः क्वाप्य् अप्रतर्क्यो ययौ निःकम्पः स च भूपतिः पुनर् अमुं प्राप्तुं व्यधान् निःचयम् ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc